SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ २० प्रज्ञापनाउपाङ्गसूत्रम्-२-१५/१/-/४२८ वरावभासः कुण्डलः कुण्डलवरः कुण्डलवरावभासः रुचको रुचकवरो रुचकवरावभास इत्यादि, चात्र क्रमः-नन्दीश्वरसमुद्रानन्तरं अरुणो द्वीपोऽरुणः समुद्रः, ततोऽरुणवरो द्वीपोऽरुणवरः समुद्र इत्यादि, एष चात्रक्रमः-नन्दीश्वरसमुद्रानन्तरंअरुणो द्वीपोऽरुणः समुद्रः, ततोऽरुणवरो द्वीपो।ऽरुणवरः समुद्र इत्यादि, कियन्तः खलु नामग्राहं द्वीपसमुद्राः वक्तुंशक्यन्ते? ततस्तन्नामसङग्रहमाह-'आभरणवत्थे'त्यादिगाथाद्वयं, यानि कानिचिदाभरणनामानि-हारार्द्धहाररत्नाव लिक-नकावलिप्रभृतीनि यानि च वस्तरनामानि-चीनांशुकप्रभृतीनि यानि च गन्धनामानि-कोष्ठपुटादीनियानिचोत्पलानामानि-जलरुहचन्द्रोद्योतप्रमुखानियानिचतिलकप्रभृतीनि वृश्रनामानि यानि च पद्मनामानि-शतपत्रसहस्रपत्रप्रभृतीनि __यानि च पृथिवीनामानि-पृथिवीरत्नशर्करावालुकेत्यादीनि यानि च नवानां निधीनां चतुर्दशानां चक्रवर्तिरलानां चुल्लहिमवदादिकानां वर्षधरपर्वतादीनां पद्मादीनां दानां गङ्गासिन्धुप्रभृतीनांनदीनां कच्छादीनां विजयानांमाल्यवदादीनांवक्षस्कारपर्वतानां सौधर्मादीनां कल्पानां शक्रादीनामिन्द्राणां देवकुरुउत्तरकुरुमन्दराणामावासानां-शक्रादिसम्बन्धिनां मेरुप्रत्यासन्नदीनां कूटानां क्षुल्लहिमवदादिसम्बन्धिनांनक्षत्राणां कृत्तिकादीनांचन्द्राणांसूर्याणांच नामानि तानि सर्वाण्यपि द्वीपसमुद्राणां त्रिप्रत्यवताराणि वक्तव्यानि, तद्यथा हारो द्वीपोहारः समुद्रः हारवरो द्वीपोहारवरः समुद्रः हारवरावभासोद्वीपो हारवरावभासः समुद्र इत्यादिना प्रकारेण त्रिप्रत्यवतारास्तावद् वक्तव्याः यावत् सूर्यो द्वीपः सूर्यस्समुद्रः सूर्यवरो द्वीपः सूर्यवरस्समुद्रः सूर्यवरावभासो द्वीपः सूर्यवरावभासः समुद्रः, उक्तं च जीवाभिगमचूर्णो"अरुणाई दीवसमुद्दा तिपडोयारा यावत् सूर्यवरावभासः समुद्रः" ततः सूर्यवरावभासपरिक्षेपी देवो द्वीपस्ततो देवः समुद्रः, तदनन्तरं नागो द्वीपो नागः समुद्रः, ततो यक्षो द्वीपो यक्षः समुद्रः, ततो भूतो द्वीपो भूतः समुद्रः, स्वयम्भूरमणो द्वीपः स्वयम्भूरमणः समुद्रः, एते पञ्चदेवादयो द्वीपाः पञ्च देवादयः समुद्राः एकरूपाः, न पुनरेषां प्रत्यवतारः, उक्तं च जीवाभिगमचूर्णो – “एते पञ्च द्वीपाः पञ्च समुद्रा एकप्रकारा' इति, जीवाभिगमसूत्रेऽप्युक्तम्- "देवेनागेजक्खेभूए संयभूरमणे यएकेको चेवभाणियब्बो, तिपडोयारंनस्थित्ति" इति। पूर्वमाकाशथिग्गलशब्देनलोकः पृष्टोऽधुना लोकशब्देनैवतं पिपृच्छिषुराह- 'लोए णं भंते ! किंणा फुडे' इत्यादि, पाठसिद्धं, अलोकसूत्रमपि पाठसिद्धं, नवरं ‘एगे अजीवदव्वदेसे' इति अलोक एकोऽजीवद्रव्यदेशः, आकाशास्तिकायस्य देश इत्यर्थः, परिपूर्णस्त्वाकाशास्तिकायो न भवति, लोकाकाशेन हीनत्वात्, अत एवागुरुलघुकोऽमूर्त्तत्वात्, अनन्तैरगुरुलघुकगुणैः संयुक्तः, प्रतिप्रदेशस्वपरबेदभिन्नानामनन्तानामगुरुलघुपर्यायाणां भावात्, किंप्रमाणाः सोऽलोक इति चेत्, अत आह-सर्वाकाशमनन्त भागेनं-लोकाकाशमात्रखण्डहीनं सकलाकाशप्रमाणं इति भावः॥ पदं-१५, उद्देशकः-१-समाप्त: -:पदं-१५, उद्देशकः-२:वृ. व्याख्यातःप्रथमः उद्देशकः, सम्प्रतिद्वितीयआरभ्यते-तत्रेदमादावाधिकारसङग्राहक गाथाद्वयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy