SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३३२ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/२०० वृ. 'लवणस्सणंभंते! समुद्दस्स पदेसा' इत्यादि सूत्रचतुष्टयं प्राग्वद्भावनीयम् ।।सम्प्रति लवणसमुद्रनामान्वर्थ पृच्छति-'सेकेणतुण मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते-लवणः समुद्रोलवणः समुद्रः? इति, भगवानाह-गौतम! लवणस्य समुद्रस्यउदकः आविलम्' अविमलमस्वच्छं प्रकृत्या 'रइलं' रजोवत्, जलवृद्धिहानिभ्यां पङ्कबहुलमिति भावः, लवणं सान्निपाकरसोपेतत्वाल्लिन्द्रंगोवराक्ष (ख्य)रसविशेषकलितत्वात्, ‘क्षारं तीक्ष्णंलवणरसविशेषवत्वात्, 'कटुकं' कटुकरसोपेतत्वात्, अतएवोपद्रवव्रातादपेयं, केषामपेयम् ?-चतुष्पदमृगपक्षसरीसृपाणां, नान्यत्र 'तद्योनिकेभ्यः' लवणसमुद्रयोनिकेभ्यः सत्वेभ्यस्तेषां पेयमिति भावः। तद्योनिकतया तेषां तदाहारकत्वात्, तदेवं यस्मात्तस्योदकं लवणमतोऽसौ लवणः समुद्र इति, अन्यच्च ‘सुट्ठिए लवणाहिवई' इत्यादि सुगम, नवरमेष भावार्थ-यस्मात् सुस्थितनामा तदधिपति-लवणाधिपतिरिति स्वकल्पपुस्तके प्रसिद्धम्, आधिपत्यं च तस्याधिकृतसमुद्रस्य विषये नान्यस्य ततोऽप्यसौ लवणसमुद्र इति, तथा चाह-'सेएएणद्वेण मित्यादि । सम्प्रति लवणसमुद्रगतचन्द्रादिसङ्ख्यापरिमाणप्रतिपादनार्थमाह मू. (२०१) लवणे णं भंते ! समुद्दे कति चंदा पभासिंसु वा पभासिंति वा पभासिस्संति वा?, एवं पंचण्हवि पुच्छा, गोयमा ! लवणसमुद्दे चत्तारि चंदा पभासिंसु वा ३ चत्तारि सूरिया तविंसु वा ३ बारसुत्तरं नक्खत्तसयं जोगंजोएंसु वा ३ तिन्निबावन्ना महग्गहसया चारं चरिंसु वा ३ दुन्निसयसहस्सा सत्तविच सहस्सा नवय सया तारागणकोडाकोडीणं सोभं सोभिंसु वा ३॥ वृ. 'लवणे णं भंते ! समुद्दे' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! चत्वारश्चन्द्राः प्रभासितवन्तः प्रभासन्ते प्रभासिष्यन्ते, चत्वारः सूर्यास्तापितवन्तस्तापयन्ति तापयिष्यन्ति, तेच जम्बूद्वीपगतचन्द्रसूर्येसहसमश्रेण्या प्रतिबद्धा वेदितव्याः, तद्यथा-द्वौ सूर्योएकस्य जम्बूद्वीपगतस्य सूर्यस्य श्रेण्या प्रतिबद्धौ, द्वौ सूर्यौ द्वितीयस्य जम्बूद्वीपगतस्य सूर्यस्य, तथा द्वौ चन्द्रमसावेकस्य जम्बूद्वीपगतस्य चन्द्रस्य समश्रेण्या प्रतिबद्धौ, द्वौ द्वितीयचन्द्रस्य, तौ चैवम्-यदा जम्बूद्वीपगत एकः सूर्यो मेरोदक्षिणतश्चारं चरति तदो लवणसमुद्रेऽपि तेन सह समश्रेण्या प्रतिबद्ध एकः शिखाया अभ्यन्तरं चारं चरति द्वितीयस्तेनैव सह श्रेण्या प्रतिबद्धः शिखायाः परतः। तदैव च यो जम्बूद्वीपे मेरोरुत्तरतश्चारं चरति तेन सह समश्रेण्या प्रतिबद्धो लवणसमुद्रे उत्तरत एकः शिखाया अभ्यन्तरंचारंचरति, द्वितीयस्तुतेनैवसह समश्रेण्या प्रतिबद्धः शिखायाः परतः, एवं चन्द्रमसोऽपि जम्बूद्वीपगतचन्द्राभ्यां सह समश्रेणिप्रतिबद्धा भावनीयाः, अत एव जम्बूद्वीपइवलवणसमुद्रेऽपियदा मेरोदक्षिणतो दिवसः संभवति तदा मेरोरुत्तरतोऽपि लवणसमुद्रे दिवसः,यदाचमेरोरुत्तरतोलवणसमुद्रेदिवसस्तथा दक्षिणतोऽपि दिवसस्तदा चपूर्वस्यांपश्चिमायां दिशिलवणसमुद्रे रात्रि, यदाच मेरोः पूर्वस्यां दिशिलवणसमुद्रे दिवसस्तदा पश्चिमायामपि दिवसः, यदाच पश्चिमायां दिवसस्तदा पूर्वदिश्यपि, तदा च मेरोदक्षिणत उत्तरतश्च नियमतो रात्रि, एवं धातकीखण्डादिष्वपि भावनीयं, तद्गतानामपिचन्द्रसूर्याणांजम्बूद्वीपगतचन्द्रसूर्यैः सह समश्रेण्या व्यवस्थितत्वात्, उक्तं च सूर्यप्रज्ञप्तौ “जया णं लवणसमुद्दे दाहिणड्डे दिवसे भवइ तया णं उत्तरड्डेवि दिवसे हवइ, जया णं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy