SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २६८ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१७९ 'सव्वदिव्वतुडियसद्दनिनाएण'मिति सर्वाणि च तानि दिव्यत्रुटितानि च-दिव्यतूर्याणि च, एषामेकत्रमीलनेन यः संगतो नितरांनादो-महान्घोषः सर्वदिव्यत्रुटितशब्दसंनिनादस्तेन, इह तुल्येष्वपि सर्वशब्दो दृष्टो यथाऽनेन सर्वं पीतं घृतमिति, तत आह 'महया इड्डीए' इत्यादि, महत्या यावच्छक्तितुलितया 'ऋद्धया परिवारादिकया 'महया जुईए' इत्याद्यपि भावनीयं, तथा महता-स्फूर्त्तिमता वराणां-प्रधानानां त्रुटितानां-आतोद्यानां यमकसमकं-एककालं पटुभि पुरुषैः प्रवादितानां यो रवस्तेन, एतदेव विशेषेणाचष्टे'संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुंदुहिनिग्योससंनिनादितरवेणं' शङ्खः प्रतीतः पणवो-भाण्डानांपटहः-प्रतीतः भेरी-ढक्काझल्लरी-चविनद्धा विस्तीर्णा वलयरूपाखरमुहीकाहला हुडुक्का-महाप्रमाणो मर्दलो मुरजः स एव लघुर्मृदङ्गो दुन्दुभिः-भेर्याकारा सङ्कटमुखी, तासां द्वन्द्वः, तासां निर्घोषो-महान् ध्वान नादितं च घण्टायामिव वादनोत्तरकालभावी सततध्वनिस्तल्लक्षणो यो रवस्तेन महता महता इन्द्राभिषेकेणाभिषिञ्चति। _ 'तए णमित्यादि, ततो णमिति पूर्ववत् तस्य विजयस्य देवस्य 'महया' इति अतिशयेन महति इन्द्राभिषेखे वर्तमानेऽप्येकका देवा विजयां राजधानी, सप्तम्यर्थे द्वितीया प्राकृतत्वात्ततोऽयमर्थ-विजयायां राजधान्यां नात्युदके प्रभूतजलसंग्रहभावतो वैरस्योपपत्तेः नातिमृत्तिके अतिमृत्तिकाया अपि कर्दमरूपतायां उत्साहवृद्धिजनकत्वाभावात् 'पविरलफुसिय'मिति प्रविरलानि-घनभावे कर्दसम्भवात् प्रकर्षेण यावता रेणवः स्थगिता भवन्ति तावन्मात्रेणोत्कर्षण स्पृष्टानि-स्पर्शनानियत्र वर्षेतत्प्रविरलस्पृष्टं 'रयरेणुविणासणं'तिश्लक्ष्णतरारेणुपुद्गलारजस्त एव स्थूला रेणवः रजांसि च रेणवश्व रजोरेणवस्तेषां विनाशनं रजोरेणुविनाशनं 'दिव्यं' प्रधानं सुरभिगन्धोदकवर्षं वर्षन्ति, अप्येकका विजयां राजधानी समस्तामपि 'निहतरजसं' नहतं रजो यस्यांनिहतरजास्तां, तत्र निहतत्वंरजसः क्षणमात्रमुत्थानाभावेनापिसंभवतिततआह-'नष्टरजसं' नष्टं-सर्वथाऽश्यीभूतं रजो यत्र सा नष्टरजास्तां। -तथा भ्रष्टं-वातोद्भूततया राजधान्या दूरतः पलायितं रजो यस्याः सा भ्रष्टरजास्ताम्, एतदेवैकार्थिकद्वयेन प्रकटयति-प्रशान्तरजसं उपशान्तरजसं कुर्वन्ति, अप्येकका देवा विजयां राजधानीम् 'आसियसंमजियोवलितं सित्तं सुइसम्मट्ठ [रय]रत्यंतरावणवीहियं करेंति' इति आसिक्त-मुदकच्छटेनसंमार्जितंकचवरशोधनेन उपलिप्तमिव गोयमादिनोपलिप्तं, तथा सिक्तानि जलेनात एव शुचीनि-पवित्राणि संमृष्टानि-कचवरापनयनेन रथ्यान्तराणि आपणवीथय इव-हट्टमार्गा इव आपणवीथयो रथ्याविशेषाश्च यस्यां सा तथा तां कुर्वन्ति, अप्येकका देवा मञ्चातिमञ्चकलितां कुर्वन्ति, अप्येकका देवा नानाविधा विशिष्टा रागायेषुतेनानाविरागनानाविरागैरुच्छतैः ऊर्वीकृतैर्ध्वजैः पताकातिपताकाभिश्चमण्डितांकुर्वन्ति, अप्येकका देवा लाउल्लोइयमहितां गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलां कुर्वन्ति, अप्येकका देवा विजयांराजधानीमुपचितचन्दनकलशां कुर्वन्ति अप्येकका देवा चन्दनघटसुकृतततोरणप्रतिद्वारदेशभागांकुर्वन्ति _ अप्येकका देवा विजयां राजधानीमासिक्तोत्सक्तविपुलवृत्तवग्घारितमाल्यदामकलापां कुर्वन्ति, अप्येकका देवा विजयां राजधानी पञ्चवर्णसुरभिमुक्तपुष्पपुञ्चोपचारकलितां कुर्वन्ति, अप्येककादेवा विजयांराजधानी कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपमघमघायमानांगन्धोद्धुताभि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy