SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / नै०-१/८१ जोतिरसे ९ अंजणे १० अजलपुलए ११ रयते १२ जातरूवे १३ अंके १४ फलिहे १५ रिट्ठे १६ कंडे । इमीसे णं भंते ! रयणप्पभापुढवीए रयणकंडे कतिविधे पन्नत्ते ?, गोयमा ! एगागारे पन्नत्ते, एवं जाव रिट्ठे । इमीसे णं भंते! रयणप्पभापुढवीए पंकबहुले कंडे कतिविधे पन्नत्ते ?, गोयमा ! एकागारे पन्नत्ते । एवं आवबहुले कंडे कतिविधे पन्नत्ते ?, गोयमा ! एकागारे पन्नत्ते सक्करप्पभा णं भंते! पुढवी कतिविधा पन्नत्ता ?, गोयमा ! एकागारा पन्नत्ता, एवं जाव अहेसत्तमा ॥ १०२ वृ. 'इमाणं भंते' इत्यादि इयं भदन्त ! रत्नप्रभा पृथिवी 'कतिविधा' कतिप्रकारा कतिविभागा प्रज्ञप्ता ?, भगवानाह - गौतम ! 'त्रिविधा' त्रिविभागा प्रज्ञप्ता, तद्यथा - खरकाण्ड' मित्यादि, काण्डं नाम विशिष्टो भूभागः, खरं कठिनं, पङ्कबहुलं ततोऽबबहुलं चान्वर्थतः प्रतिपत्तव्यं, क्रमश्चैतेषामेवमेव, तद्यथा - प्रथमं खरकाण्डं तदनन्तरं पङ्कबहुलं ततोऽबबहुलमिति । 'इमीसे णं भंते' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां खरकाण्डं कतिविधं प्रज्ञप्तं ?, भगवानाह - गौतम ! ' षोडशविधं' षोडशविभागं प्रज्ञप्तं, तद्यथा " 'रयणे' इति, पदैकदेशे पदसमुदायोपचाराद् रत्नकाण्डं तच्च प्रथमं, द्वितीयं वज्रकाण्डं, तृतीयं वैडूर्यकाण्डं, चतुर्थं लोहितकाण्डं पञ्चमं मसारगल्लकाण्डं, षष्ठं हंसगर्भकाण्डं, सप्तमं पुलककाण्डम्, अष्टमं सौगन्धिककाण्डं, नवमं ज्योतीरसकाण्डं, दशममञ्जनकाण्डम्, एकादशमञ्जनपुलककाण्डं, द्वादशं रजतकाण्डं, त्रयोदशं जातरूपकाण्डं, चतुर्दशमङ्गकाण्डं, पञ्चदर्श स्फटिककाण्डं षोडशं रिष्टरत्नकाण्डं, तत्र रत्नानि - कर्केतनादीनि तत्प्रधानं काण्डं रत्नकाण्डं, वज्ररत्नप्रधानं काण्डं वज्रकाण्डम्, एवं शेषाण्यपि, एकैकं च काण्डं योजनसहस्रबाहल्यम् । ‘इमीसे णं भंते' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां रत्नकाण्डं 'कतिविधं ' कतिप्रकारं कतिविभागमिति भावः प्रज्ञप्तं ?, भगवानाह - एकाकारं प्रज्ञप्तं । एवं शेषकाण्डविषयाण्यपि प्रश्ननिर्वचनसूत्राणि क्रमेण भावनीयानि । एवं पङ्गबहुलाव्बहुलविषयाण्यपि । 'दोच्चाणं भंते' इत्यादि, द्वितीयादिपृथिवीविषयाणि सूत्राणि पाठसिद्धानि ॥ सम्प्रति प्रतिपृथिविनरकावाससङ्ख्याप्रतिपादनार्थमाह मू. (८२) इमीसे णं भंते! रयणप्पभाए पुढवीए केवइया निरवायाससयसहस्सा पन्नत्ता ?, गो० तीसं निरयावाससयसहस्सा पन्नत्ता, एवं एतेणं अभिलावेणं सव्वासिं पुच्छा, इमा गाहा ० वृ. 'इमीसे णं भंते' इत्यादि, सुगमं, नवरमियमत्र सङ्ग्रहणिगाथा - मू. (८३) तीसा य पन्नवीसा पन्नरस दसेव तिन्नि य हवंती । पंचूणसयसहस्सं पंचेव अनुत्तरा नरगा ।। मू. (८४) जाव अहेसत्तमाए पंच अनुत्तरा महतिमहालया महाणरगा पन्नत्ता, तंजहा काले महाकाले रोरुए महारोरुए अपतिट्ठाणे ॥ वृ. "तीसा य पन्नवीसा पन्नरस दस चेव सयसहस्साइं । तिण्णेगं पंचूणं पंचेव अणुत्तरा निरया ॥” अघःसप्तम्यां च पृथिव्यां कालादयो महानरका अप्रतिष्ठानाभिघस्य नरकस्य पूर्वादिक्रमेण, (उक्तञ्च) “पुव्वेण होइ कालो अवरेणं अप्पइट्ठ महकाली । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy