SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २४७ मूलं-२३ सप्ततन्त्री वीणा अष्टशतं परिवादीनीवादकानां २४ । अष्टशतं वव्वीसानामष्टशतं वव्वीसावादकानां २५ अष्टशतं सुघोषाणामष्टशतं सुघोषावादकानां२६अटशतं नन्दिघोषाणामष्टशतंनन्दीघोषवादकानां २७ अष्टशतंमहतीनां, महतीशततन्त्रिका वीणाअष्टशतं महतीवादकानां २८ अष्टशतं कच्छमीनामष्टशतं कच्छभीवादकानां २९ अष्टशतंचित्रवीणानांअष्टशतंचित्रवीणावादकानां३० अष्टशतमामोदानामष्टशतंआमोदवादकानां३१ अष्टशतंझञ्झानामष्टशतंझञ्झावादकानां ३२ अष्टशतंनकुलानां अष्टशतंनकुलवादकानां ३३ अष्टशतं तूणानामष्टशतं तूणावादकानां ३४ अष्टशतं तुम्बवीणानां तम्बयुक्ता वीणा या तुम्बवीणा अधकल्यप्रसिद्धा अष्टशतंतुम्बवीणावादकानां ३५ अष्टशतं मुकुन्दानां, मुकुन्दोमुरुजवाद्यविशेषोयोऽतिलीनं प्रायो वाद्यते अष्टशतं मुकुन्दवादकानां ३६ । ___ अष्टशतं हुडुक्कानामष्टशतं हुडुक्कावादकानां हुडुक्का प्रतीता ३७, अष्टशतं चिवि (विचि) कनामष्टशतं चिवि(विचि)क्कवादकानां ३८, अष्टशतं करटीनामष्टशतं करटीवादकानां, करटी प्रतीता ३९अष्टशतं डिण्डिमानामष्टशतंडिण्डिमवादकानां, प्रथमप्रस्तावनास्तबकः पण-वविशेषः डिण्डिमः ४०, अष्टशतं किणितानामष्टशतं किणतवादकानां ४१ अष्टशतं कडवानाम-टशतं कडवावादकानां, कडवा-करटिका ४२, अष्टशतं दर्दरकाणामष्टशतं दर्दरवाकानां, दईरकः प्रतीतः ४३, अटशं दर्दरिकाणामष्टशतं दर्दरिकावादकानां लघुदर्दरको दर्दरिका ४४ अष्टशतं कुस्तुम्बराणामष्टशत कुस्तुम्बरवादकानां ४५ अष्टशतं कलशिकानामष्टशतं कलशिकावादकानां ४६, अष्टशतं कलशानमिष्टशतंकलशवीदकानां४७, अष्टशतंतालानामष्टशतंतालवादकानां४८। अष्टशतं कास्यतालानामष्टशतं कांस्यतोलवादिकानां ४९, अष्टशतं रिंगिसकानामष्टशतं रिंगिसिकावादकानां ५०, अष्टशतमङ्गरिकाणामटशतमङ्गरिकावादकानां ५१, अष्टशतं शिशुमा- रिकाणामष्टशतं शिशुमारिकावादकानां ५२, अष्टशतं वंशानामष्टशतं वंशवादकानां ५३ अष्टशतं बालीनामष्टशतं बालीवादकानां, बाली-तूणविशेषः, स हि मुखे दत्वा वाद्यते ५४, अष्टशतं वेणूनामष्टशतं वेणुवादकानां ५५, अष्टशतं परिलीनामष्टशतं परिलीवादकानां ५६, अष्टशतं बद्धकानामष्टशतं बद्धकवादकानां, बद्धकस्तूणविशेषः ५७। ___ अव्याख्यायास्तु भेदा लोकतः प्रत्येतव्याः, एवमादीनि बहन्यातोद्यानि आतोद्यवादकांश्च विकुर्वति,सर्वसङख्ययातु मूलभेदापेक्षयाऽऽतोद्यभेदाएकोनपञ्चाशत्, शेषास्तुभेदाएतेष्वेवान्तभवन्ति, यथावंशातोद्यविधाने बालीवेणुपरिलीवव्वगाइति । एवमाइयाइंएगुणपन्नंआतोज्जविहाणाइंविउव्वइ' इति, विकुवित्वाचतान् स्वयंविकुर्वितान्देवकुमारान् देवकुमारिकाश्चशब्दयति, तेचशब्दिता हृष्टतुष्टानन्दितचिताःसूर्याभसमीपमागच्छन्ति, आगत्य न करतलपरिगृहीतंदशनखं शिरसावतच मस्तकेऽञ्जलिं कृत् जयेन विजयेन वर्धापयित्वा एवमवादिषुः-सन्दिशन्तु देवानां प्रिया यदस्माभिकर्त्तव्यं, ततः स सूर्याभो देवस्तान् बहून देवकुमारान् देवकुमारिकाश्च एवमवादीत्-गच्छत यूयं देवानां प्रियाः श्रमणं भगवन्तं महावीरं त्रिकृत्व आदक्षिणप्रदक्षिणं कुरुत कृत्वा च वन्दध्वं नमस्यत वन्दित्वा नमस्थित्वा गौतमादीनां श्रमणानां निर्ग्रन्थानां तां देवजनप्रसिद्धां दिव्यां देवर्द्धि दिव्यां देवद्युतिं दिव्यं देवानुभावं दिव्यं द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयत। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy