________________
शतकं-१,
वर्ग:-, उद्देशकः-१
'आउयवज्जाओ' त्ति यस्मादेकत्र भवग्रहणे सकृदेवान्तर्मुहूर्त्तमात्रकाले एवायुषो बन्धस्तत उक्तमायुर्वर्जा इति ‘सिढिलबंधणबद्धाओ'त्ति श्लथबन्धनं-स्पृष्टता वा बद्धता वा निधत्तता वा तेन बद्धाः - आत्मप्रदेशेषु संबन्धिताः पूर्वावस्थायामशुभतरपरिणामस्य कथञ्चिदभावदिति शिथिलबन्धनबद्धाः, एताश्चाशुभा एव द्रष्टव्याः, असंवृतभावस्य निन्दाप्रस्तावात्, ताः किमित्याह'धणियबंधणबद्धाओ पकरेंति' त्ति गाढतरबन्धना बद्धावस्था वा निधत्तावस्था निकाचिता वा ‘प्रकरोति’ प्रशब्दस्यादिकर्मार्थत्वात्कर्त्तुमारभते, असंवृतत्वस्याशुभयोगरूपत्वेन
४१
गाढतप्रकृतिबन्धहेतुत्वात्, आह च- 'जोगा पयडिपएसं 'ति, पौनःपुन्यभावे त्वसंवृतत्वस्य ताः करोत्येवेति, तथा ह्स्वकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थिति-उपात्तस्य कर्म्मणोऽवस्थानं तामल्पकालां महतीं करोतीत्यर्थः, असंवृतत्वस्य कषायरूपत्वेन स्थितबन्धहेतुत्वात्, आह च - "ठिइमणुभागं कसायओ कुणइ "त्ति ।
तथा ‘मंदाणुभावे-’तयादि, इहानुभावो विपाको रसविशेष इत्यर्थः, ततश्च मन्दानुभावाःपरिपेलवरसाः सतीर्गाढरसाः प्रकरोति, असंवृतत्वस्य कषायरूपत्वादे, अनुभागबन्धस्य च कषायप्रत्ययत्वादिति, 'अप्पपएसे' त्यादि, अल्पं स्तोकं प्रदेशाग्रं कर्मदलिकपरिमाणं यासां ताः तथा ता बहुप्रदेशाग्राः प्रकरोति, प्रदेशबन्धस्यापि योगप्रत्ययत्वाद्, असंवृतत्वस्य च योगरूपत्वादिति, 'आउयं चे 'त्यादि, आयुः पुनः कर्म्म स्यात् कदाचिद्बध्नाति स्यात् कदाचिद् न बन्धाति, यस्मात्रिभागाद्यवशेषायुषः परभवायुः प्रकुर्व्वन्ति, तेन यदा त्रिभागादिस्तदा बन्ध्नाति, अन्यदा न बन्धातीति
तथा ‘असाए’त्यादि असातवेदनीयं च दुःखवेदनीयं कर्म पुनः 'भूयो भूयः' पुनः पुनः ‘उपचिनोति’ उपचितं करोति, ननु कर्मसप्तकान्तवर्तित्वादसातवेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपचयप्रतिपत्तेः किमेतद्ग्रहणेन ? इति, अत्रोच्यते, असंवृतोऽत्यन्तदुःखितो भवतीति प्रतिपादनेन भयजननादसंवृतत्वपरिहारार्थमिदमित्यदुष्टमिति ।
‘अणाइयं’ति अविद्यमानादिकम् अज्ञातिकं वा अविद्यमानस्वजनम् ऋणं वाऽतीतम् ऋणजन्यदुःस्थताऽतिक्रान्त दुःस्थतानिमित्ततयेति ऋणातीतम्, अणं वाऽणकं पापमतिशयेनेतंगतमनातीतम्, ‘अणवयग्गं’ति, 'अवयग्गं' ति देशीवचनोऽन्तवाचकस्ततस्तन्निषेधाद् अणवयग्गम्, अनन्तमित्यर्थः अथवाऽवनतम् - आसन्नमग्रम् - अन्तो यस्य तत्तथा तन्निषेधाद् अनवनताग्रम्, एतदेव वर्णनाशादवनता(नवता ) ग्रमिति, अथवाऽनवगतम् - अपरिच्छिन्नमग्रं परिमाणं यस्य तत्तथा, अत एव 'दीहमद्धं'ति 'दीर्घाद्धं' दीर्घकालं 'दीर्घाध्वंवा' दीर्घमार्गं 'चाउरंत 'न्ति चतुरन्तंदेवादिगतिभेदात्, पूर्वादिदिगभेदाच्च चतुर्विभागं तदेव स्वार्थिकाण्प्रत्ययोपादानाच्चातुरन्तं 'संसारकंतारं 'ति भवारण्यम् 'अणुपरियट्टा' त्ति पुनः पुनर्भमतीति ।
असंवृतस्य तावदिदं फलं, संवृतस्य तु यत्स्यात्तदाह- 'संवुडे ण 'मित्यादि व्यक्तं, नवरं संवृतः-अनगारः प्रमत्ताप्रमत्तसंयतादि, स च चरमशरीरः स्यादचरमशरीरो वा, तत्र यश्चरमशरीरस्तदपेक्षयेदं सूत्रं यस्त्वचरमशरीरस्तदपेक्षया परम्परया सूत्रार्थोऽवसेयः ननु पारम्पर्येणासंवृतस्यापि सूत्रोक्तार्थस्यावश्यम्भावो, यतः शुक्लपाक्षिकस्यापि मोक्षोऽवश्यंभावी, तदेवं संवृतासंवृतयोः फलतो भेदाभावएवेति, अत्रोच्यते, सत्यं, किन्तु यत्संवृतस्य पारम्पर्यं तदुत्कर्षतः सप्ताष्टभवप्रमाणं, यतो वक्ष्यति-‘जहन्नियं चरिताराहणं आराहित्ता सत्तठ्ठभवग्गहणेहिं सिज्झइ 'त्ति, यच्चासंवृतस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org