SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३६२ भगवतीअङ्गसूत्रं ८/-/१/३८७ विकल्पा दशानां च चतुर्भिर्गुणने चत्वारिंशदिति, त्रिकसंयोगे तुषष्टिः। कथम्?, पञ्चानां पदानांदश त्रिकसंयोगाः एकैकस्मिंश्च त्रिकसंयोगे पूर्वोक्तक्रमेण षड् विकल्पाः दशानां च षड्भिर्गुणने षष्टिरिति । चतुष्कसंयोगास्तु विंशतिः, कथम् ?, पञ्चानां पदानां तु चतुष्कसंयोगे पञ्च विकल्पा एकैकस्मिंश्च पूर्वोक्तक्रमेण चत्वारो भङ्गाः पञ्चानां चतुर्भिर्गुणने विंशतिरिति, पञ्चकसंयोगे त्वेक एवेति, एवषट्कादिसंयोगा अपि वाच्याः। नवरंषट्कसंयोगआरम्भसत्यमनःप्रयोगादिपदान्याश्रित्य सप्तकसंयोगस्त्वौदारिकादिकायप्रयोगमाश्रित्य अष्टकसंयोगस्तु व्यन्तरभेदान् नवकसंयोगस्तु ग्रैवेयकभेदान् दशकसंयोगस्तु भवनपतिभेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षया व्यन्तरभेदान्नवकसंयोगस्तुग्रैवेयकभेदान् दशकसंयोगस्तु भवनपतिभेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षया समवसेयः, एकादशसंयोगस्तुसूत्रेनोक्तः, पूर्वोक्तपदेषुतस्यासम्भवात्, द्वादशसंयोगस्तु कल्पोपपन्नदेवभेदानाश्रित्य वैक्रियशरीर-कायप्रयोगापेक्षया वेति। _ 'पवेसण'त्तिनवमशतकसत्कतृतीयोद्देशके गाङ्गेयाभिधानानगारकृतनरकादिगतप्रवेशनविचारे, कियन्तितदनुसारेणद्रव्यानि वाच्यानि? इत्याह-'जावअसंखेने तिअसङ्ख्यातान्तनारकादिवक्तव्यताश्रयं हि तत्सूत्रम्, इह तु यो विशेषस्तमाह-'अनंता इत्यादि, एतेदेवाभिलापतो दर्शयन्नाह-'जाव अनंते'इत्यादि। अथैतेषामेवाल्पबहुत्वं चिन्तयन्नाह मू. (३८८) एएसि णं भंते ! पोग्गलाणं पयोगपरिणयाणं मीसापरिणयाणं वीससापरिणयाण यकयरे २ हिंतोजाव विसेसाहियावा?, गोयमा! सव्वत्थोवा पोग्गलापयोगपरिणया मीसापरिणया अनंतगुणा वीससापरिणया अणन्तगुणा । सेवं भंते! सेवं भंते ! ति॥ वृ. “एएसि ण'मित्यादि, 'सव्वत्थोव पुग्गला पओगपरिणय'त्ति कायादिरूतया, जीवपुद्गलसम्बन्धकालस्य स्तोकत्वात्, ‘मीसापरिणयाअनंतगुण'त्तिकायादिप्रयोगपरिणतेभ्यः सकाशान्मिश्रकपरिणताअनन्तगुणाः, यतः प्रयोगकृतमाकारमपरित्यजन्तोविश्रसयाये परिणामान्तरमुपागता मुक्तकडेवराद्यवयवरूपास्तेऽनन्तानन्ताः, विश्रसापरिणतास्तु तेभ्योऽप्यनन्तगुणाः, परमाण्वादीनां जीवाग्रहणप्रायोग्याणामप्यनन्तत्वादिति॥ शतकं-८ उद्देशकः-१ समाप्तः - शतक-८ उद्देशकः-२:वृ.प्रथमे पुद्गलपरिणाम उक्तो, द्वितीये तुस एवाशीविषद्वारेणोच्यते इत्येवंसम्बन्धस्यास्यादिसूत्रम् मू. (३८९) कतिविहा णं भंते ! आसीविसा पन्नत्ता ?, गोयमा ! दुविहा आसीविसा पन्नत्ता, तंजहा-जातिआसीविसा य कम्मआसीविसा य, जाइआसीविसा णं भंते ! कतिविहा पन्नत्ता ? गोयमा ! चउब्विहा पन्नत्ता, तंजहा-विच्छुयजातिआसीविसे मंडुक्कजातिआसीविसे उरगजातिआसीविसे मणुस्सजातिआसीविसे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy