SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३५८ भगवतीअगसूत्रं ८/-/१/३८६ दारिकेण मिश्रतायां, स चाहारकत्यागेनौदारिकग्रहणाभिमुखस्य, एतदुक्तंभवति-यदाऽऽहारकशरीरी भूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेशं प्रति व्यापारभावान्न परित्यजति यावत्सर्वथैवाहारकं तावदौदारिकेण सह मिश्रतेति, ननु तत्तेन सर्वथाऽमुक्तं पूर्वनिर्वर्तितं तिष्ठत्येव तत्कतं गृह्णाति ?, सत्यं तिष्ठति तत् तथाऽप्यौदारिकशरीरोपादानार्थं प्रवृत्त इति गृह्णात्येवेत्यच्यत इति।। 'कम्मासरीरकायप्पओगपरिणए'त्तिइह कार्मणशरीरकायप्रयोगोविग्रहे समुद्घातगतस्य च केवलिनस्तृतीयचतुर्थःपञ्चमसमयेषु भवति, उक्तं च-“कार्मणशरीरयोगी चतुर्थःके पञ्चमे तृतीयेचे"ति, एवं प्रज्ञापनाटीकानुसारेणौदारिकशरीरकायप्रयोगादीनांव्याख्या, शतकटीकाऽनुसारतः पुनर्मिश्रकायप्रयोगाणामेवं-औदारिकमिश्र औदारिक एवापरिपूर्णो मिश्र उच्यते, यथा गुडमिश्रं दघि, न गुडतया नापि दधितया व्यपदिश्यते तत् ताभ्यामपरिपूर्णत्वात्, एवमौदारिकं मिश्र कार्मणेनैव नौदारिकतया नापि कार्मणतया व्यपदेष्टु शक्यमपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्रावपीति, नवरं 'बायरवाउक्काइए'इत्यादि । यथौदारिकशरीरकायप्रयोपरिणते सूक्ष्मपृथिवीकायिकादि प्रतीत्यालापकोऽधीतस्तथौदारिकमिश्रशरीरकायप्रयोगपरिणतेऽपि वाच्यो, नवरमयं विशेषः-तत्र सर्वेऽपि सूक्ष्मपृथिवीकायिकादयः पर्याप्तापर्याप्तविशेषणाअधीता इहतुबादरवायुकायिका गर्भजपञ्चेन्द्रियतिर्यग्मनुष्याश्च पर्याप्तकापर्याप्तकविशेषणा अध्येतव्याः, शेषास्त्वपर्याप्तकविशेषणा एव, यतो बादरबायुकायिकादीनांपर्याप्तकावस्थायामपिवैक्रियारम्भणत औदारिकमिश्रशरीरकायप्रयोगो लभ्यते, शेषाणां पुनरपर्याप्तकावस्थायामेवेति।। ___'जहाओगाहणसंठाणे'त्तिप्रज्ञापनायामेकविंशतितमपदे, तत्रचैवमिदंसूत्र-'जइ वाउक्काइयएगिदियवेउव्वियसरीरकायप्पयोगपरिणए किं सुहुमवाउक्काइयएगिदिय जाव परिणए बादरवाउक्काइयएगिदिय जावपरिणए?,गोयमा!नोसुहुमजावपरिणएबायरजावपरिणए इयादीति ‘एवं जहा ओगाहणसंठाणे'त्ति तत्र चैवमिदं सूत्रं-'गोयमा ! नो अमणुस्साहारगसरीरकायप्पओगपिणए मणुस्साहारगसरीरकायप्पओगपरिणए' इत्यादि । एवंजहाओगाहणासंठाणे कम्मगस्स भेओ'त्ति स चायं भेदः-'बेइंदियकम्मासरीरकायप्पओगपरिणए वा एवं तेइंदियचउरिदिय' इत्यादिरिति। अथ द्रव्यद्वयं चिन्त्यन्नाह मू. (३८७) दोभंते! दव्वा किंपयोगपरिणयामीसापरिणयावीससापरिणया?, गोयमा पओगपरिणया वा १ मीसापरिणया वा २ वीससापरिणया वा ३ अहवाएगे पओगपरिणए एगे मीसापरिणए ४ अहवेगे पओगप० एगे वीससापरि०५ अहवा एगे मीसापरिणए एगे वीससापरिणए एवं ६। __ जइ पओगपरिणया किं मप्पयोगपरिणया वइप्पयोग० कायप्पयोगपरिणया?, गोयमा मणप्पयो० वइप्पयोगप० कायप्पयोगपरिणया वा अहवेगे मणप्पयोगप० एगे वयप्पयोगप०, अहवेगेमणप्पयोगपरिणए कायप०, अहवेगेवयप्पयोगप० एगेकायप्पओगपरि०, जइमणप्पयोगप० किं सच्चमणप्पयोगप०४ । गोयमा ! सच्चमणप्पयोगपरिणया वा जाव असच्चामोसमणप्पयोगप० १ अहवा एगे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy