________________
शतकं-६, वर्ग:-, उद्देशकः-८
२९९ नामः प्रदेशरूपंवा नाम-कर्मविशेषइत्यर्थःप्रदेशनामतेन सह निधत्तमायुस्तप्रदेशनामनिधत्तायुरिति
___'अनुभागनामनिधत्ताउए'त्ति अनुभाग-आयुर्द्रव्याणामेव विपाकस्तल्लक्षण एव नामपरिणामोऽनुभागनामः अनुभागरूपं वा नामकर्म अनुभागनाम तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति ६।
अथ किमर्थंजात्यादिनामकर्मणाऽऽयुर्विशेष्यते?,उच्यते, आयुष्कस्यप्राधान्योपदर्शनार्थं यस्मान्नारकाद्यायुरुदये सि जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकंचायुरेव, यस्मादुक्तमिहैव।
'नेरइए णं भंते ! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ ?, गोयमा ! नेरइए नेरइएसुउववज्जइनो अनेरइए नेरइएसुउववज्जईत्ति, एतदुक्तंभवति-नारकायुःप्रथमसमयसंवेदन एव नारका उच्यन्ते तत्सहचारिणांच पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, इह चायुर्बन्धस्य षड्विधत्वे उपक्षिप्ते यदायुषः षड्विधत्वमुक्तं तदायुषो बन्धाव्यतिरेकाद्बद्धस्यैवचायुर्व्यपदेशशिष्यत्वादिति । ‘दंडओ'त्ति ‘नेरइयाणं भंते ! कतिविहे आउयबंधे पन्नते' ? इत्यादि।मानिकान्तश्चतुर्विशतिदण्डको वाच्योऽत एवाह-'जाव वेमानियाणं'ति ।।
अथ कर्मविशेषाधिकारात्तद्विशेषितानां जीवादिपदानां द्वादश दण्डकानाह-'जीवाणं भंते !' इत्यादि, 'जातिनाम निहत्त'त्ति जातिनाम निधत्तं-निषिक्तं विशिष्टबन्धं वा कृतं यैस्ते जातिनामनिधत्ताः १ एवं गतिनामनिधत्ताः २, यावत्करणात् ‘ठितिनामनिहत्ता ३ ओगाहणानामनिहत्ता ४ पएसनामनिहत्ता ५ अनुभागनामनिहत्ता ६' इति दृश्य, व्याख्या तथैव ।
नवरंजात्यादिनाम्नांयास्थितिर्येच प्रदेशायश्चानुभागस्तत्स्थित्यादिनामअवगाहनानामशरीरनामेति, अयमेको दण्डको वैमानिकान्तः १, तथा 'जातिनामनिहत्ताउ'त्ति जातिनाम्ना सह निधत्तमायुर्चस्तेजातिनामनिधत्तायुषः, एवमन्यान्यपि पदानि, अयमन्यो दण्डकः२, एवमेते 'दुवालस दंडग'त्तिअमुना प्रकारेण द्वादश दण्डका भवन्ति, तत्रद्वावाद्यौ दर्शितावपिसङ्ख्यापूरणार्थं पुनदर्शयति-जातिनामनिधत्ता इत्यादिरेकः, ‘जाइनामनिहत्ताउया' इत्यादिद्धितीयः २ ।
'जीवाणं भंते! किंजाइनामनिउत्ता'इत्यादिस्ततीयः ३, तत्र जातिनाम नियुक्तं-नितरां युक्तं संबद्धं निकाचितं वेदेन वा नियुक्तं यैस्ते जातिनामनियुक्ताः, एवमन्यान्यपि ५, ‘जाइनामनिउत्ताउया' इत्यादिश्चतुर्थः, तत्रजातिनाम्नासह नियुक्तं-निकाचितंवेदयितुमारब्धवाऽऽयुर्यैस्ते तथा, एवमन्यान्यपि ५, 'जाइगोयनिहत्ता' इयादि पञ्चमः, तत्र जातेः-एकेन्द्रियादिकाया यदुचितं गोत्रं-नीचुर्गोत्रादि तज्जातिगोत्रं तन्निधत्तं यैस्तेजातिगोत्रनिधत्ता, एवमन्यान्यपि ५, जाइगोयनिहत्ताउया यइत्यादि षष्ठः, तत्र जितागोत्रेण सह निधत्तमायुर्यैस्तेजातिगोत्रनिधत्तायुष एवमन्यान्यपि ५ ‘जाइगोयनिउत्ता'इत्यादिसप्तमः ७ तत्र जातिगोत्रं नियुक्तं यैस्ते तथा, एवमन्यान्यपि ५।
__–'जाइगोयनिउत्ताउया' इत्यादिरष्टमः ८ तत्र जातिगोत्रेण सह नियुक्तमायुर्यैस्ते तथा एवम-न्यान्यपि ५, 'जातिनामगोयनिहत्ता' इत्यादिर्नवमः ९ तत्र जातिनाम गोत्रं च निधत्तं यैस्ते तथा, एवमन्यान्यपि ५।
'जीवा णं भंते ! किं जाइनामगोयनिहत्ताउया ?' इत्यादिर्दशमः १० तत्र जातिनाम्ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org