________________
४४६
स्थानाङ्ग सूत्रम् ७/-/६८८
अश्रावणशब्दवत्, प्रत्यक्षविरुद्धता चास्यार्द्धसंस्तृतसंस्तारकासंस्तृतत्वदर्सनात्, ततश्च क्रियमाणत्वेन प्रत्यक्षसिद्धेन कृतत्वधर्मोऽपनीयत इति भावना, आह च॥१॥ 'सक्खं चिय संथारोन कज्जमाणो कडोत्ति मे जम्हा ।
बेइजमाली सचं न कज्जमाणं कयं तम्हा॥" इति, यश्चैवं प्ररूपयन्स्थविरैरेवमुक्तः-हे आचार्य! क्रियमाणं कृतमिति नाध्यक्षविरुद्धं, यदि हि क्रियमाणं-क्रियाविष्टं कृतं नेष्यते ततः क्रियानारम्भसमय इव पश्चादपि क्रियाऽभावे कथं तदिष्यत इति सदा प्रसङ्गः, क्रियाऽभावस्याविशिष्टत्वात्, यदप्युक्तं, 'अर्द्धसंस्तृतसंस्तारकासंस्तृतत्वदर्शनात्' तदप्ययुक्तं, यतो यद्यदा यत्राकाशदेशे वस्त्मास्तीर्यते तत्तदा तत्रास्तीर्णमेव, एवं पाश्चात्यवास्तरण-समये खल्वसावास्तीर्ण एवेति, आह च॥१॥ “जंजत्थ नभोदेसे अत्थुव्वइ जत्थ जत्थ समयंमि ।
तंतत्थ तत्थमत्थुयमत्थुव्वंतंपितं चेव ॥” इति, तदेवं विशिष्टसमयापेक्षीणि भगवद्वचनानीति, एवमपिप्रत्युक्तो योन तत्प्रतिपन्नवान्, सोऽयंबहुरतधर्माचार्यः १।तथा तिष्यगुप्तः वसुनामधेयाचार्यस्य चतुर्दशपूर्वधरस्य शिष्यो, यो हि राजगृहे विहरन्नात्मप्रवादाभिधानपूर्वस्य “एगे भंते ! जीवप्पएसे जीवेत्ति वत्तव्वं सिया?, नो इणमढे समढे, एवं दो तिन्नि संखेज्जा वा असंखेज्जा जाव एक्केणावि पएसेण ऊणे नो जीवेत्ति वत्तव्वं सिआ, जम्हा कसिणे पडिपुने लोगागासपएसतुल्लप्पएसे जीवेति वत्तव्वं सिया' इत्येवमादिकमालापकमधीयानः कर्मोदयादुत्थितः सन्नित्थमभिहितवान्-यद्येकादयो जीवप्रदेशाः खल्वेकप्रदेशहीना अपि न जीवाख्यां लभन्ते किन्तु चरमप्रदेशयुक्ता एव लभन्त इति, ततः स एवैकः प्रदेशो जीव इति, तद्भावभावित्वाज्जीवत्वस्येति, आह च॥१॥ “एगादओपएसा न य जीवोन य पएसहीणोवि।
जंतो सजेण पुन्नो स एव जीवो पएसोत्ति ॥" यश्चैवमाभिदधानो गुरुणोक्तो-नैतदेवं, जीवाभावप्रसङ्गात्, कथं ?, भवदभिमतोऽन्त्यप्रदेशोऽप्यजीवः, आद्यप्रदेशतुल्यपरिणामत्वात्, प्रथमादिप्रदेशवत्, प्रथमादिप्रदेशोवाजीवः शेषप्रदेशतुल्यपरिणामत्वदन्त्यप्रदेशवत्, न च पूरण इतिकृत्वा तस्य जीवत्वं युज्यते, एकैकस्य पूरणत्वाविशेषाद्, एकमपि विना तस्यासम्पूर्णत्वमिति, आह च॥१॥ “गुरुणाऽभिहिओ जइ ते पढमपएसो न संमओ जीवो।
तो तप्परिणामो चिय जीवो कहमंतिमपएसो?॥" इत्यादि, एवमुक्तोऽपि न प्रतिपन्नवान्, ततः सङ्घावहिष्कृतो, यश्चामलकल्पायां मित्रश्रीनाम्ना श्रमणोपासकेन संखड्यां भक्तादिग्रहणार्थं गृहमानीयाग्रतश्च विविधानि खाद्यकादिद्रव्याण्युपिनधाय तत एकैकमवयवं दत्त्वा पादेषु निपत्याहो धन्योऽहं मया साधवः प्रतिलम्भिता इत्यभिदधानेनाहो अहंभवताधर्षितइति वदन् भवत्सिद्धान्तेन भवान् प्रतिलम्भितो मया यदि परं वर्द्धमानस्वामिसि-द्धान्तेन नेति प्रतिभणता प्रतिबोधितः, सोऽयंजीवप्रदेशिकानां धर्माचार्य इति २।
तथा आषाढः, येन हि श्वेतव्यां नगर्यां पोलासे उद्याने स्वशिष्याणां प्रतिपन्नागाढयोगानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org