________________
३७२
स्थानाङ्ग सूत्रम् ५/३/४९८
६२
६२
स्येत्येवंप्रमाणः २९ २ / कृष्णप्रतिपदारब्धः पूर्णमासीनिष्ठितश्चन्द्रमासस्तेन मासेन द्वादशमासपरिमाण- श्चन्द्रसंवत्सरः, तस्य च प्रमाणमिदं त्रीणि शतान्यह्नां चतुःपञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागाः ३५४ १२ / एवं द्वितीयचतुर्थावपि चन्द्रसंवत्सरौ, 'अभिवढिए' त्ति एकत्रिंशद्दिनानि एकविंशत्युत्तरशतं चतुर्विंशत्युत्तरशतभागानामभिवर्द्धितमासः ३१ १२१/, एवंविधेन मासेन द्वादशमास- प्रमाणोऽभिवर्द्धितसंवत्सरः, स च प्रमाणेन त्रीणि शतान्यह्नां त्रयशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागाः ३८३४, इत्येवं पञ्चमोऽपि, एभिश्चन्द्रादिभिः पञ्चमिः संवत्सरैरेकं युगं भवति, तेषां च पञ्चानां संवत्सराणां मध्ये अभिवद्धिताख्ये संवत्सर अधिकमासकः पततीति, प्रमाणसंवत्सरः पञ्चविधः,
१२४'
तत्र 'नक्षत्र' इति नक्षत्रसंवत्सरः स च उक्तलक्षणः, केवलं तत्र नक्षत्रमण्डलस्य चन्द्रभोगमात्रं विवक्षितमिह तु दिनदिनभागादिप्रमाणमिति, तथा चन्द्राभिवर्द्धितावप्युक्तलक्षणावेव किन्तु तत्र युगावयतामात्रमिह तु प्रमाणमिति विशेषः, 'उऊ' इति ऋतुसंवत्सरः, त्रिंशदहोरात्रप्रमाणैर्द्वादशभिः ऋतुमासैः सावनमासकर्म्ममासपर्यायैर्निष्पन्नः, षष्टयधिकाहोरात्रशतत्रयमान इति ३६०, 'आइचे' त्ति आदित्यसंवत्सरः, स च त्रिंशद्दिनान्यर्द्ध चेति, एवंविधमासद्वादशकनिष्पन्नः षटष्टयधिकाहोरात्रश- तत्रयमान इति ३६६, अयमेवानन्तरोक्तो नक्षत्रादिसंवत्सरो लक्षणप्रधानतया लक्षणसंवत्सर इति । तत्र नक्षत्रमाह
मू. (४९९) समगं नक्खत्ता जोगं जोयंति समगं उदू परिणमंति । नघुण्हं नातिसीतो बहूदतो होति नक्खत्ते ॥
वृ. 'समगं' गाहा, समकं - समतया नक्षत्राणि - कृत्तिकादीनि योगं कार्त्तिकीपौर्णमास्यादितिध्या सह सम्बन्धं योजयन्ति-कुर्वन्ति, इदमुक्त भवतियानि नक्षत्राणि यासु तिथिषूत्सर्गतो भवन्ति, यथा कार्त्तिक्यां कृत्तिकाः, तानि तास्वेव यत्र भवन्ति यथोक्तम्"जेट्ठो वच्चइ मूलेण सावणो धणिट्ठाहिं ।
119 11
उद्दासु य मग्गसिरो सेसा नक्खत्तनामिया मासा " इति,
तथा यत्र समतयैव ऋतवः परिणमन्ति, न विषमतया, कार्त्तिक्या अनन्तरं हेमन्तर्तुः पौष्या अनन्तरं शिशिरर्तुरित्येवमवतरन्तीति भावः, यश्चन - नैव अतीव उष्णं धर्मोयत्र सोऽत्युष्णाः, न-नैवातिशीतः- अतिहिमः, बहूदकं यत्र स बहूदकः स च भवति लक्षणतो नक्षत्र इति, नक्षत्रचारलक्षण-लक्षितत्वान्नक्षत्रसंवत्सरति, अस्यां च गाथायां पञ्चमाष्टमावंशकी पञ्चकलावितीयं विचित्रेति छंदोविद्भिरुपदिश्यते, 'बहुला विचित्त' त्ति गाथालक्षणात् पत्ति-पंचकलो गण इति । मू. (५००) ससिसगलपुण्णमासी जोतेती विसमचारनक्खत्ते । कडुतो बहूदतो तमाहु संवच्छरं चंद
वृ. 'ससि' गाहा 'ससि' त्ति विभक्तिलोपात् शशिना-चन्द्रेण सकलपौर्णमासीं समस्तराका यः संवत्सर इति गम्यते अथवा यत्र शशी सकलां पौर्णमासीं योजयति-आत्मना सम्बन्धयति । तथा विषमचारीणि यथास्वतिथिष्ववर्त्तीनि नक्षत्राणि यत्र स विषमचारिनक्षत्रः, तथा कटुकोऽतिशीतोष्णसद्मावात् बहूदकश्च, दीर्घत्वं प्राकृतत्वात्, तमेवंविधमाहुर्लक्षणतो ब्रुवते तद्विदः संवत्सरं चन्द्रं चन्द्रचारलक्षणलक्षितत्वादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org