________________
३०२
स्थानाङ्ग सूत्रम् ४/४/३८७ तं० - भिन्ने जाव अपरिस्साई, चत्तारि कुंभा पं० २० महुकुंभे नामंएगे महुप्पिहाणे महुकुंभे नाम एगे विसपिहाणे विसकुंभे नाम एगे महुपिहाणे विसकुंभे नाममेगे विसपिहाणे, एवामेव चत्तारि पुरिसजाया पं० तं० - महुकुंभे नाम एगे मधुपिहाणे ४.
वृ. पुरुषानेव कुम्भदृष्टान्तेन प्रतिपिपादयिषुः सूत्रप्रपञ्चमाह-सुगमश्चायं, नवरं पूर्णःसकलावयवयुक्तः प्रमाणोपेतो वा पुनः पूर्णो-मध्वादिभृतः द्वितीय भङ्गे तुच्छो-रिक्तः, तृतीये तुच्छः-अपूर्णावयवोलघुर्वा, चतुर्थः सुज्ञानः, अथवा पूर्णो-भृत पूर्वपश्चादपि पूर्णइत्येवंचत्वारोऽपि १, पुरुषस्तु पूर्णो जात्यादिभिर्गुणैः पुनः पूर्णो ज्ञानादिभिरिति अथवा पूर्णो धनेन गुणैर्वा पूर्व पश्चादपितैः पूर्णएवेत्येवं शेषाअपि२, पूर्णोऽवयवर्दध्यादिना वापूर्णएवावभासते द्रष्ट णामिति पूर्णावभासीत्येकोऽन्यस्तु पूर्णोऽपि कुतश्चिद्धेतोर्विवक्षितप्रयोजनासाधकत्वादेस्तुच्छोऽवभासते, एवं शेषौ ३।
पुरुषस्तुपूर्णोधनश्रुतादिभिस्तद्विनियोगाचपूर्णएवावभासते, अन्यस्तुतदविनियोगात्तुच्छ एवावभासते, अन्यस्तु तुच्छोऽपि कथमपि प्रस्तावोचितप्रवृत्तेः पूर्णवदवभासते, अपरस्तुच्छोधनश्रुतादिरहितोऽत एव तदविनियोजकत्वात् तुच्छावभासीति ४ । तथ पूर्णो नीरादिना पुनः पूर्णं पुण्यं वा-पवित्ररूपंयस्य सतथेतिप्रथमोद्वितीयेतुच्छं-हीन रूपम्-आकारोयस्य सतुच्छरूपः, एवंशेषौ ५।पुरुषस्तुपूर्णोज्ञानादिभिः पूर्णरूपः पुण्यरूपोवाविशिष्टरजोहरणादिद्रव्यलिङ्गसद्भावात् दिसुसाधुरितिद्वितीयभङ्गेतुच्छरूपः कारणात्यक्तलिङ्गः सुसाधुरेवेतितृतीयेतुच्छो ज्ञानादिविहीनो निह्नवादिश्चतुर्थो ज्ञानादिद्रव्यलिङ्गहीनो गृहस्थादिरिति ६।
तथा पूर्णस्तथैव अपिस्तुच्छापेक्षया समुच्चयार्थः एकः-कश्चित् प्रियाय-प्रीतये अयमिति प्रियार्थः कनकादिमयत्वात् सार इत्यर्थः, तथा अपदलम्-अपशदं द्रव्यं कारणभूतं मृत्तिकादि यस्यासावपदलः अवदलतिवा-दीर्यत इत्यवदलःआमपकतयाऽसारइत्यर्थः, तुच्छोऽप्येवमेवेति ७।पुरुषोधनश्रुतादिभिः पूर्णः प्रियार्थः कश्चिप्रियवचनदानादिभिः प्रियकारीसार इति,अन्यस्तु न तथेत्यपदलः परोपकारं प्रत्ययोग्य ति, तुच्छोऽप्येवमेवेति ८ । पूर्णोऽपि जलादेर्विष्यन्दतेश्रवति, इह तुच्छ:-तुच्छजलादिः स एव विष्पन्दते, अपिः सर्वत्र समुच्चये प्रतियोग्यपेक्षयेति ९।
पुरुषस्तुपूर्मोऽप्येको विष्यन्दते-धनंददाति श्रुतंवाअन्योनेतितुच्छोऽपि-अल्पवित्तादिरपि धनश्रुतादि विष्यन्दतेऽन्यो नैवेति १०। तथा भिन्नः-स्फुटितः जर्जरितो-राजीयुक्तः परिश्रावीदुष्पक्वत्वात् क्षरकः अपरिश्रावी कठिनत्वादिति ११ । चारित्रं तु भिन्नं मूलप्रायश्चित्तापत्त्या जर्जरितं छेदादिप्राप्तया परिस्रावि सूक्ष्मातिचारतया अपरिमावि निरतिचारतयेति, इह य पुरुषाधिकारेऽपि यच्चारित्रलक्षणपुरुषधर्मभणनंतद्धर्माधर्मिणोः कथञ्चिदभेदादनवद्यमवगन्तव्यमिति १२। मू. (३८८) 'हिययमपावमकलुसंजीहाऽविय महुरभासिणी निछ ।
जंमि पुरिसंमि विज्ञति से मधुकुंभे मधुपिहाणे॥ मू. (३८९) हिययमपावमकलुसंजीहाऽविय कडुयभासिणी निछ ।
जंमि पुरिसंमि विजति से मधुकुंभे विसपिहाणे ॥ मू. (३९०) जंहिययं कलुसमयंजीहाऽवि य मधुरभासिणी निछ ।
जंमिपुरिसंमि विअति से विसकुंभे महुपिहाणे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org