________________
२७४
प्राप्तार्थपरिच्छेदस्वभावत्वादिति, उक्तं च119 11
“पुट्ठे सुणेइ सद्दं रूवं पुण पासई अपुट्ठे तु । गंध रसं च फासं च बद्धपुटुं वियागरे " इति
मू. (३५९) चउहिं ठाणेहिं जीवा य पोग्गला य नो संचातेति बहिया लोगंता गमणताते, तं०-गति अभावेणं निरुवग्गहताते लुक्खताते लोगानुभावेणं ।
स्थानाङ्ग सूत्रम् ४/३/३५८
वृ. अनन्तरं जीवपुद्गलयोरिन्द्रियद्वारेण ग्राहकग्राह्यभाव उक्तोऽधुना तयोर्गतिधर्म्म चिन्तयन्नाह - 'चउही 'त्यादि, व्यक्तं, परमन्येषां गतिरेव नास्तीति 'जीवा य पुग्गला ये' त्युक्तम्, 'नोसंचाऐति' न शक्नुवन्ति नालं 'बहिय'त्ति बहिस्ताल्लोकान्तात् अलोके इत्यर्थः, गमनतायैगमनाय गन्तुमित्यर्थः, गत्यभावेन - लोकान्तात् परतस्तेषां गतिलक्षणस्वभावाभावादधो दीपशिखावत्, तथा निरुपग्रहतया धर्मास्तिकायाभावेन तज्जनितगत्युपष्टम्भाभावात् गन्त्र्यादिरहितपङ्गुवत्,
तथा रुक्षतया सिकतामुष्टिवत्, लोकान्तेषु हि पुद्गला रूक्षतया तथा परिणमन्ति यथा परतो गमनाय नालं, कर्मपुद्गलानां तथाभावे जीवा अपि, सिद्धास्तु 'निरुपग्रहतयैवेति, लोकानुभावेन -लोकमर्यादया विषयक्षेत्रादन्यत्र मार्त्तण्डमण्डलवदिति । अनन्तरोक्ता अर्था उक्तवन्निदर्शनतः प्रायः प्राणिनां प्रतीतिपथपातिनो भवन्तीनि निदर्शनभेदप्रतिपादनाय पञ्चसूत्री
मू. (३६०) चउव्विहे नाते पं० तं०-आहरणे आहरणतद्देसे आहरणतद्दोसे १, आहरणे चउव्विहे पं० तं० - अवाते उवाते ठवणाकम्मे पडुप्पन्नविणासी २, आहरणतद्देसे चउव्विहे पं० तं०-अणुसिट्ठि उवालंभे पुच्छा निस्सावयणे ३, आहरणतद्दोसे चउव्विहे पं० तं० - अधम्मजुत्ते पडिलोमे अंतोवणीते दुरुवणीते ४,
उवन्नासोवणए चउव्विहे पं० तं० तव्वत्थुते तदन्नवत्थुते पडिनिभे हेतू हेऊ ५, चउव्विहेपं० तं०-पञ्चक्खे अनुमाने ओवम्मे आगमे, अहवा हेऊ चउव्विहे पं० तं०- अत्थित्तं अत्थि सो हेऊ १, अत्थित्तं नत्थि सो हेऊ २, नत्थित्तं अत्थि सो हेऊं ३, नत्थित्तं नत्थि सो हेऊ ४ ।
वृ. तत्र ज्ञायते अस्मिन् सति दान्तिकोऽर्थ इति अधिकरणे क्तप्रत्ययोपादानात् ज्ञातंहृष्टान्तः, साधनसद्भावे साध्यस्यावश्यंभवः साध्यभावे वा साधनस्यावश्यमभाव इत्युपदर्शनलक्षणो,
यदाह-
॥१॥
"साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता ।
ख्याप्यते यत्र ध्ष्टान्तः, स साधर्म्येतरो द्विधा " इति,
तत्र साधर्म्यष्टान्तोऽग्निरत्र धूमाद्यथा महानस इति, वैधर्म्यध्ष्टान्तस्तु अग्नयभावे धूमो न भवति यथा जलाशये इति, अथवा आख्यानकरूपं ज्ञातं, तच्च चरितकल्पितभेदात् द्विधा, तत्र चरितं यथा निदानं दुःखाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति देशनीयं, यथा पाण्डुपत्रेण किशलयानां देशितं, तथाहि
119 11 "जह तुम्मे तह अम्हे तुब्मेऽविय होहिहा जहा अम्हे ।
अप्पा पडतं पंडुयपत्तं किसलयाणं " ॥
अथवोपमानमात्रं ज्ञातं सुकुमारः करः किशलयमिवेत्यादिवत्, अथवा ज्ञातम्उपपत्तिमात्र
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International