________________
४५०
सूत्रकृताङ्ग सूत्रम् २/७/-1८०० ____ गवंचणंउदाहु-संतेगइआ मणुस्सा भवंति, तेसिंचणंएवं वृत्तपुव्वं भवइ-नोखलु वयं संचाएमोमुंडाभवित्ता अगाराओअनगारियंपव्वइत्तए, सावयंण्हं अनुपुब्वेणंगुत्तस्स लिसिस्सामो, ते एवं संखति ते एवं संखं ठवयंति ते एवं संखं ठावयंति नन्नत्थ अभिओएणं गाहावइचोरगहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवइ ।
वृ. सद्वाचं सवादं वोदकः पेढालपुत्रो भगवन्तं-गौतममेवमवादीत्, तद्यथा-हे आयुष्मन् गौतम्! कतरान्प्राणिनो यूयंवदथ, असा एवये प्राणाः-प्राणिनस्तएव त्रसाः प्राणा इत्युतान्यथेति, एवंपृष्टोभगवान् गौतमस्तमुदकंसद्वाचं पेढालपुत्रमेवमवादीत्, तद्यथा-आयुष्मन्नुदक!यान्प्राणिनो यूयं वदथ त्रसभूताः-त्रसत्वेनाविभूताः प्राणिनो नातीता नाप्येष्याः, किंतु ? वर्तमानकाल एव त्रसाः प्राणा इति, तानेव वयं वदामस्त्रसाः-त्रसत्वं प्राप्तास्तत्कालवर्तिन एव त्रसाः प्राणा इति, एतदेवव्यत्ययेन बिभणिपुराह-'जेवय'मित्यादि, यान्वयंवदामस्त्रसाएवप्राणास्त्रसाःप्राणास्तानेव यूयमेवं वदथ-त्रसभूता एव प्राणास्त्रसभूताः प्राणाः, एवं च व्यवस्थिते एतेअनन्तरोक्ते द्वे अपि स्थाने एकार्थे-तुल्ये भवतो, न ह्यत्रार्थभेदः कश्चिदस्त्यन्यत्र शब्दभेदादिति, एवं च व्यवस्थिते किमायुष्मन् ! युष्माकमयं पक्षः सुष्ठु प्रणीततरो-युक्तियुक्तः प्रतिभासते? ।
तद्यथा-त्रसभूता एव प्राणास्त्रसभूताः प्राणा इति, अयं तु पक्षो दुष्प्रणीततरो भवति' प्रतिभासते भवतां?, तद्यथा-सा एव प्राणास्त्रसाः प्राणाः, सन्ति चैकार्थत्वेन भवतां कोऽयं व्यामोहो? येन शब्दभेदमात्रमाश्रित्यात एकंपक्षमाक्रोशयथ द्वितीयंत्वभिनन्दथ इति।तदयमपि तुल्येऽप्यर्थे सत्येकस्य पक्षस्याक्रोशनमपरस्य सविशेषणपक्षस्याभिनन्दनमित्येष दोषाभ्युपगमो भवतां नोनैयायिको'नन्यायोपपन्नोभवति, उभयोरपिपक्षयोःसमानत्वात्, केवलंसविशेषणपक्षे भूतशब्दोपादानं मोहमावहतीति ।
यच्चभवताऽस्माकंप्राग्दोषोद्भावनमकारि, तद्यथा-त्रसानांवधनिवृत्तीतदन्येषांवधानुमति स्यात् साधोः, तथा भूतशब्दानुपादानेऽनन्तरमेव त्रसंस्थावरपर्यायापन्नं व्यापादयतो व्रतभङ्ग इत्येतत्कुचोद्यजातं परिहर्तुकाम आह-णमिति वाक्यालङ्कारे, भगवान्गौतमस्वामी, चशब्दः पुनःशब्दार्थे, पुनराह, तद्यथा-'सन्ति' विद्यन्तेएकेकेचनलघुकर्माणो मनुष्याःप्रव्रज्यांकर्तुमसमर्थाः, तद्वयतिरेकेणैव धर्मचिकीर्षवः, तेषांचैवमध्यवसायिनांसाधोधर्मोपदेशप्रवणस्याग्रत इदमुक्तपूर्व भवति, तद्यथा-भोः साधो! नखलुवयंशक्नुमो मुण्डा भवितुं प्रव्रज्यां ग्रहीतुमगाराद्-गृहादनगारतांसाधुभावं प्रतिपत्तुं, वयं त्वानुपूर्वेणं-क्रमशो ‘गोत्रस्येति गां त्रायत इति गोत्रं-साधुत्वं तस्य साधुभावस्यपर्यायेण-परिपाट्याऽऽत्मानमनुश्लेषयिष्यामः, इदमुक्तंभवति-पूर्वदेशविरतिरूपतया श्रावकधर्मं गृहस्थयोग्यमनिन्द्यमनुपालयामः, ततोऽनुक्रमेण पश्चाच्छ्रमणधर्ममिति । ततएवं ते 'संख्यां' व्यवस्थां 'श्रावयन्ति' प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति, तद्यथा-नान्यत्राभियोगेन।
स चामियोगो राजाभियोगो गणाभियोगो बलाभियोगो देवताभियोगो गुरुनिग्रहश्वेत्येवमादिनाऽभियोगेन व्यापादयतोऽपि त्रसंन व्रतभङ्गः। तथागृहपतिचोरविमोक्षणतयेत्यस्यायमर्थःकस्यचिद्गृहपतेः षट्पुत्राः, तैश्चसत्यपि पितृपितामहक्रमायातेमहति वित्तेतथाविधकर्मोदयाद्राजकुलभाण्डागारे चौर्यमकारि, राजपुरुषैश्च भवितव्यतानियोगेन गृहीतास्ते इत्येके, परे त्वन्यथा व्याचक्षते, तद्यथा-रत्नपुरेनगरेरलशेखरोनामराजा, तेनचपरितुष्टेन रत्नमालाग्रमहिषीप्रमुखान्तः पुरस्य कौमुदीप्रचारोऽनुज्ञातः, तदवगभ्य नागरलोकेनापि राजानुमत्यास्वकीयस्य स्त्रीजनस्य तथैव क्रीडनमनुमतं, राज्ञाचनगरेसडिण्डिमशब्दमाघोषितं, तद्यथा-अस्तमनोपरिकौमुदीमहोत्सवे
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only