SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशक : 9 - 11911 "कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्त्ति, कालो हि दुरतिक्रमः ॥” स चातीन्द्रियो युगपच्चिरक्षिप्रक्रियाभिव्यङ्गयो हिमोष्णवर्षाव्यवस्थाहेतुः क्षणलवमुहूर्तयामाहोरात्रमासर्तुअयनसंवत्सरयुगकल्पपल्यो पम-सागरोपमोत्सर्पिण्यवसर्पिणीपुलपरावर्त्तीतानागतवर्त्तमानसर्वाद्धादिव्यवहारूपः १ | द्वितीयविकल्पे तु कालादेवात्मनोऽस्तित्वमभ्युपेयं, किं त्वनित्योऽसाविति विशेषोऽयं पूर्वविकल्पात २ । तृतीयाविकल्पे तु परत एवास्तित्वमभ्युपगम्यते, कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते ?, नन्वेतत्प्रसिद्धमेव सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदो, यथा दीर्घत्वापेक्षया ह्रस्वत्वपरिच्छेदो ह्रस्वत्वापेक्षया च दीर्घत्वस्येति, एवमेव चानात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्वयतिरिक्ते वस्तुन्यात्मबुद्धिः प्रवर्त्तत इति, अतो यदात्मनः स्वरूपं तत्परत एवावधार्य्यते न स्वत इति ३ । चतुर्थविकस्पोऽपि प्राग्वदिति चत्वारो विकल्पाः ४ । तथाऽन्ये नियतित एवात्मनः स्वरूपमवधारयन्ति, का पुनरियं नियतिरिति, उच्यते, पदार्थानामवश्यंतया यद्यथाभवने प्रयजोककर्त्री नियतिः, उक्तं च ॥१॥“प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयले, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥” इंयं च मस्करिपरिव्राण्मतानुसारिणी प्रायः इति । अपरे पुनः स्वभावादेव संसारव्यवस्थामभ्युपयन्ति, कः पुनरयं स्वभावः ?, वस्तुनः स्वत एव तथापरिणतिभावः स्वभावः, उक्तंच11911 'कः कष्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । ॥२॥ २३ स्वभावतः सर्व्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः ? ॥ स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः । नाहं कर्तेति भूतानां य पश्यन्ति स पश्यति ॥ ॥३॥ केनाञ्जितानि नयनानि मृगाङ्गनानां, कोऽलङ्करोति रुचिराङ्गरुहान्मयूरान् । कश्चोत्पलेषु दलसन्निचयं करोति, को वा दधाति विनयं कुलजेषु पुंस्सु ? ॥” तथाऽन्येऽभिदधते- समस्तमेतजीवादीश्वराट्प्रसूतं, तस्मादेव स्वरूपऽवतिष्ठते, कः पुनरयमीश्वरः ?, अणिमाद्यैश्वर्ययोगादीश्वरः उक्तं च 11911 , “अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेच्छूभ्रं वा स्वर्गमेव वा ॥" तथाऽन्ये ब्रुवते न जीवादयः पदार्थाः कालादिभ्यः स्वरूपं प्रतिपद्यन्ते, किं तर्हि ?, आत्मनी, च पुनरयमात्मा ?, आत्माद्वैतवादिनां विश्वपरिणतिरूपः, उक्तञ्च 11911 “एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥” 1 तथा - "पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्य" मित्यादि । एवमस्त्यजीवः, स्वतः नित्यः कालत इत्येवं सर्वत्र योज्यम् ॥ तथा अक्रियावादिनो - नास्तित्ववादिनः, तेषामपि जीवाजीवाश्रवबन्धसंवर For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy