________________
५२३
षष्टाध्यायस्य तृतीयः पादः दीर्घः(४) वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम् ।११७।
प०वि०-वन-गिर्योः ७।२ संज्ञायाम् ७१ कोटर-किंशुलकादीनाम् ६।३।
स०-वनं च गिरिश्च तौ वनगिरी, तयो:-वनगिर्यो: (इतरेतरयोगद्वन्द्वः) । कोटरश्च किंशुलकश्च तौ कोटरकिंशुलकौ, कोटरकिंशुलको आदी येषां ते कोटरकिंशुलकादयः, तेषाम्-कोटरकिंशुलकादीनाम् (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहि:)।
अनु०-उत्तरपदे, पूर्वस्य, दीर्घ:, अणः, संहितायामिति चानुवर्तते ।
अन्वय:-संहितायां संज्ञायां च कोटरकिंशुलकादीनां पूर्वस्याणो वनगिर्योरुत्तरपदयोर्दीर्घः ।
अर्थ:-संहितायां संज्ञायां च विषये कोटरादीनां किंशुलकादीनां च शब्दानां पूर्वस्याणो यथासंख्यं वनशब्दे गिरिशब्दे चोत्तरपदे परतो दी? भवति।
उदा०-(कोटरादय:) कोटरावणम्, मिश्रकावणम्, सिध्रकावणम्, सारिकावणम्। (किंशुलकादय:) किंशुलकागिरिः, अञ्जनागिरिः ।
(१) कोटर। मिश्रक । पुरक । सिध्रक । सारिक । इति कोटरादयः ।।
(२) किंशुलक। शाल्वक । अञ्जन। भञ्जन। लोहित। कुक्कुट। इति किंशुलकादयः ।।
आर्यभाषा: अर्थ-(संहितायाम्) संहिता और (संज्ञायाम्) संज्ञाविषय में (कोटरकिंशुलकादीनाम्) कोटर आदि और किंशुल आदि सम्बन्धी (पूर्वस्य) पूर्ववर्ती (अण:) अण् को (वनगिर्यो:) यथासंख्य वन और गिरि शब्द उत्तरपद होने पर (दीर्घ:) दीर्घ होता है।
उदा०- (कोटरादि) कोटरावणम्। कोटरावण नामक जंगल। मिश्रकावणम् । मिश्रकावण नामक जंगल। सिधकावणम् । सिध्रका नामक जंगल । सारिकावणम् । सारिकावण नामक जंगल। (किंशुलकादि) किंशुलकागिरिः। किंशुलकागिरि नामक पहाड़। अञ्जनागिरिः । अञ्जनागिरि नामक पहाड़।