________________
षष्ठाध्यायस्य द्वितीयः पादः
४०१ स०-स्फिगश्च पूतश्च वीणा च अञ्जस् च अध्वा च कुक्षि च सीरनाम च नाम च एतेषां समाहार:-स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनामनाम (समाहारद्वन्द्व:)।
अनु०-उदात्त:, उत्तरपदम्, अन्त:, समासे, अपादिति चानुवर्तते।
अन्वय:-समासेऽपाद् उपसर्गात् स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनामनाम चोत्तरपदम् अन्त उदात्त:।
अर्थ:-समासमात्रेऽपादुपसर्गात्पराणि स्फिगपूतवीणाजोऽध्वकुक्षिसीरनामनामान्युत्तरपदानि अन्तोदात्तानि भवन्ति।
उदा०-(स्फिग:) अपगतं स्फिगं यस्मात्, तत्-अपस्फ़िगम् (बहुव्रीहिः)। अपगतं स्फिगमिति अपस्फिगम् (प्रादितत्पुरुष:)। अप स्फिगादिति अपस्फिगम् (अव्ययीभाव:)। (पूत:) अपगतं पूतं यस्मात् तत्-अपपूतम् (बहुव्रीहिः)। अपगतं पूतमिति अपपूतम् (प्रादितत्पुरुषः)। अप पूतादिति अपपूतम् (अव्ययीभाव:)। (वीणा) अपगता वीणा यस्मात् तत्-अपवीणम् (बहुव्रीहि:)। अपगता वीणेति अपवीणम् (प्रादितत्पुरुषः) । अप वीणाया इति अपवीणम् (अव्ययीभाव:) । (अज:) अपगतम् अञ्जो यस्मात् तत्-अपाञ्ज: (बहुव्रीहि:)। अपगतम् अञ्ज इति अपाञ्ज: (प्रादितत्पुरुषः) । अप अञ्जस इति अपाज: (अव्ययीभाव:)। (अध्वा) अपगतोऽध्वा यस्य स:-अपाध्वा (बहुव्रीहिः)। अपगतोऽध्वा इति अपाध्वा (प्रादितत्पुरुष:)। अप अध्वन इति अपाध्वा (अव्ययीभाव:) । (कुक्षि:) अपगत: कुक्षिर्यस्या सा-अपकुक्षि: (बहुव्रीहिः)। अपगत: कुक्षिरिति अपकुक्षि: (प्रादितत्पुरुष:)। अप कुक्षेरिति अपकुक्षि (अव्ययीभाव:) । (सीरनाम) अपगत: सीरो यस्मात् स:-अपसीर: (बहुव्रीहिः)। अपगत: सीर इति अपसीर: (प्रादितत्पुरुषः)। अप सीरादिति अपसीरम् (अव्ययीभाव:)। एवम्-अपहलम्, अपलाङ्गलम्। (नाम) अपगतं नाम यस्मात् तत्-अपनाम (बहुव्रीहि:)। अपगतं नाम इति अपनाम (प्रादितत्पुरुष:)। अप नाम्न इति अपनाम (अव्ययीभाव:)।
आर्यभाषा: अर्थ-(समासे) समास मात्र में (अपात्) अप (उपसर्गात्) उपसर्ग से परे (स्फिग नाम) स्फिग, पूत, वीणा, अञ्जस्. अध्वन्, कुक्षि, सीरनाम हलवाची शब्द और नाम (उत्तरपदम्) उत्तरपद (अन्त उदात्तः) अन्तोदात्त होते हैं।