________________
पाणिनीय-अष्टाध्यायी- प्रवचनम्
स०-मन् च क्तिन् च व्याख्यानं च शयनं च आसनं च स्थानं च याजकादयश्च क्रीतश्च ते मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः (इतरेतरयोगद्वन्द्वः) ।
३६६
अनु०-उदात्त, उत्तरपदम्, तत्पुरुषे, अन्त:, कारकादिति चानुवर्तते । अन्वयः- तत्पुरुषे कारकाद् मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीता उत्तरपदम् अन्त उदात्तः ।
अर्थः- तत्पुरुषे समासे कारकात् परं मन्नन्तं क्तिन्नन्तं व्याख्यानशयनासनस्थानानि याजकादयः क्रीतशब्दश्चोत्तरपदम् अन्तोदात्तं भवति ।
उदा०-(मन्) रथस्य वर्त्मेति रथवर्त्म । शकटवर्त्म । (क्तिन्) पाणिनेः कृतिरिति पाणिनिकृति: । आपिशलिकृतिः । दयानन्दकृति: । ( व्याख्यानम् ) ऋगयनस्य व्याख्यानमिति ऋगयनव्याख्यानम् । छन्दोव्याख्यानम् । वेदव्याख्यानम्। (शयनम्) राज्ञ: शयनमिति राजशयनम् । ब्राह्मणशयनम् । (आसनम्) राज्ञ आसनमिति राजासनम् । ब्राह्मणासनम् । ( स्थानम् ) गवां स्थानमिति गोस्थानम् । अश्वस्थानम् । (याजकादयः) ब्राह्मणस्य याजक इति ब्राह्मणयाजकः । क्षत्रिययाजकः । ब्राह्मणस्य पूजक इति ब्राह्मणपूजकः । क्षत्रियपूजकः । ( क्रीतः ) गवा क्रीत इति गोक्रीतः । अश्वक्रीतः ।
'याजकादिभिश्च' (२ । २ । ९) इत्यत्र ये षष्ठीसमासार्था याजकादयः पठ्यन्ते ते एवात्र गृह्यन्ते । ते चेमे-याजक। पूजक । परिचारक । परिषेचक । परिवेषक । स्नातक । अध्यापक । उत्सादक । उद्वर्तक । हर्तृ । वर्तक । होतृ । पोतृ। भर्तृ। रथगणक । पतिगणक । इति याजकादयः । ।
आर्यभाषाः अर्थ- (तत्पुरुषे ) तत्पुरुष समास में ( कारकात् ) कारक से परे ( मन्० क्रीताः ) मन्- अन्त, क्तिन्- अन्त, आख्यान, शयन, आसन, स्थान, याजकादि और क्रीत शब्द (उत्तरपदम् ) उत्तरपद (अन्त उदात्त:) अन्तोदात्त होते हैं।
/
उदा०- (मन्) रथवर्त्म । रथ का मार्ग । शकटवर्त्म । गाड़ी का मार्ग | (क्तिन्) पाणिनिकृतिः । पाणिनिमुनि की रचना (अष्टाध्यायी आदि) । आपिशलिकृति: । आपिशलि मुनि की रचना (शिक्षा)। दयानन्दकृतिः । महर्षि दयानन्द की रचना (विदभाष्य आदि) । ( व्याख्यान) ऋगयनव्याख्यानम् । ऋगयन नामक ग्रन्थ की व्याख्या । छन्दो॒व्या॒ख्या॒नम् । छन्द:शास्त्र की व्याख्या। वेदव्याख्यानम् । वेदों की व्याख्या । (शयन) राजशयनम् । राजा