SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २५० पाणिनीय-अष्टाध्यायी-प्रवचनम् स०-गतिश्च बुद्धिश्च प्रत्यवसानं च तानि-गतिबुद्धिप्रत्यवसानानि। गतिबुद्धिप्रत्यवसानि अर्था येषां ते गतिबुद्धिप्रत्यवसनार्थाः । शब्द: कर्म यस्य स शब्दकर्मा, न विद्यते कर्म यस्य स:-अकर्मकः, गतिबुद्धिप्रत्यवसनार्थाश्च शब्दकर्मा च अकर्मकश्च ते-गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाः, तेषाम्-गतिबुद्धिप्रत्यवसनार्थशब्दकर्माकर्मकाणाम् (बहुव्रीहित्रयगर्भिततरेतरयोगद्वन्द्व:) । अनु०-'कर्म' इत्यनुवर्तते। अन्वय:-गति०अकर्मकाणामणि अणौ य: कर्ता स णौ कर्म। अर्थ:-गत्यर्थानां बुद्ध्यर्थानां प्रत्यवसानार्थानां शब्दकर्मकाणाम् अकर्मकाणां च धातूनाम् अण्यन्तास्थायां य: कर्ता स ण्यन्तावस्थायां कर्मसंज्ञको भवति । यथा धातूनाम् अण्यन्तावस्थायां य: कर्ता स: ण्यन्तावस्थायां कर्म (१) गत्यर्थानाम् (क) गच्छति माणवको ग्रामम् गमयति माणवकं ग्रामम् । (ख) याति माणवको ग्रामम् यापयति माणवकं ग्रामम् । बुद्ध्यर्थानाम् (क) बुध्यते माणवको धर्मम् बोधयति माणवकं धर्मम् । ,, ,, (ख) वेत्ति माणवको धर्मम् वेदयति माणवकं धर्मम् । (३) प्रत्यवसानार्थानाम् (क) भुङ्क्ते माणवक ओदनम् भोजयति माणवकं ओदनम् । , ,, (ख) अश्नाति माणवक ओदनम् आशयति माणवकं ओदनम्। (४) शब्दकर्मकाणाम् (क) अधीते माणवको वेदम् अध्यापयति माणवकं वेदम्। ., (ख) पठति माणवको वेदम् पाठयति माणवकं वेदम् । (५) अकर्मकाणाम् (क) आस्ते देवदत्त: आसयति देवदत्तम्। (ख) शेते देवदत्त: शाययति देवदत्तम्। आर्यभाषा-अर्थ-(गति०) गति अर्थवाली, बुद्धि अर्थवाली, खाना-पीना अर्थवाली, शब्दकर्मवाली और अकर्मक धातुओं के प्रयोग में (अणि) अणिजन्त अवस्था में जो (कर्ता) कर्ता है (स:) उसकी (णौ) णिजन्त अवस्था में कर्म संज्ञा होती है। उदा०-जैसे-(१) गति अर्थवाली-गच्छति माणवको ग्रामम् । बालक गांव जाता है। स गमयति माणवकं ग्रामम्। वह बालक को गांव भेजता है। याति माणवको ग्रामम् । बालक गांव जाता है। स यापयति माणवकं ग्रामम् । वह बालक को गांव भेजता है। (२) बुद्धि अर्थवाली-बुध्यते माणवको धर्मम् । बालक धर्म को जानता है। स बोधयति माणवकं धर्मम् । वह बालक को धर्म जनाता है। वेत्ति माणवको धर्मम् । बालक धर्म को जानता है। स वेदयति माणवकं धर्मम्। वह बालक को धर्म जनाता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy