SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ६४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्डिकायां । राजघः ॥ ५।१८८ ॥ [राजघः] राजघ प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१३।५३) विसर्गः । [राजघः] राजन् 'हनंक हिंसा-गत्योः' (११००) हन् । राजानं हन्ति । अनेन निपातनात् सर्वादेशः । प्रथमा सि ॥छ। पाणिघ-ताडघौ शिल्पिनि ॥ ५१४८९ ॥ [पाणिघताडघौ] पाणिघश्च ताडघश्च = पाणिघताडघौ । [शिल्पिनि] शिल्पमस्याऽस्तीति शिल्पी, तस्मिन् । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलोप:(?) ('अवर्णे०' (७।४।६८) अलोपः) । [पाणिघः शिल्पी] पाणि हन्तीति पाणिघः । अनेन टकप्र० → अ - घादेशश्च निपात्यते, शिल्पी । [ ताडघः शिल्पी ] ताडं हन्तीति ताडघः । अनेन टक्प्र० → अ - घादेशश्च निपात्यते, शिल्पी । [पाणिघातः ] पाणिं हन्ति । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'ञ्णिति घात्' (४।३।१००) घात् । [ताडघातः] ताडं हन्ति । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'णिति घात्' (४।३।१००) घात्० ॥छ।। कुक्ष्यात्मोदरात् भृगः खिः ॥ ५।१।९० ।। [कुक्ष्यात्मोदरात् ] कुक्षिश्च आत्मा च उदरं च = कुक्ष्यात्मोदरम्, तस्मात् । [भृगः ] भृग् पञ्चमी ङसि । [खिः] खि प्रथमा सि ।। [कुक्षिम्भरिः] कुक्षि 'टुडु,ग्क् पोषणे च' (११४०) भृ । कुक्षिमेव बिभर्ति = कुक्षिम्भरिः । अनेन खिप्र० → इ। 'खित्यनव्ययाऽरुषो मोऽन्तो हुस्वश्च' (३।२।१११) मोऽन्तः । [आत्मम्भरिः] आत्मन् - भृ । आत्मानमेव बिभर्ति । अनेन खिप्र० → इ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [उदरम्भरिः] उदर - भृ । उदरमेव बिभर्ति । अनेन खिप्र० → इ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः ॥छ।। अर्होऽच् ॥ ५।१।९१ ॥ [अर्हः ] अर्ह पञ्चमी ङसि । [अच्] अच् प्रथमा सि । अणोऽपवादः । लिहादित्वादच भविष्यतीति तस्यैवायं प्रपञ्चः । [पूजार्हः साधुः ] पूजा 'अर्ह पूजायाम्' (५६४) अर्ह । पूजामर्हति । अनेन अच्प्र० → अ । [पूजार्हा प्रतिमा] पूजामर्हति । अनेन अच्प्र० → अ । 'आत्' (२।४।१८) आप्प्र० → आ । बहुलाधिकारात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy