SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ दन्तच्छदः ] 'छदण् संवरणे' (१६५५) छद् । 'चुरादि ' ० ( ३।४।१७) णिच्प्र० । ञ्णिति' (४|३|५० ) उपान्त्यवृद्धिः आ । दन्ताः छाद्यन्तेऽनेनेति दन्तच्छदः । अनेन घप्र० अ । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'एकोपसर्गस्य च घे' (४|२|३४) ह्रस्वत्वम् । २६४ [ प्लवः ] च्चुंङ् (५९४) - ज्यंङ् (५९५) - जुंङ् (५९६) - पुंङ् (५९७) प्लुंङ् गतौ' (५९८) प्लु । प्लूयते गम्यतेऽनेनेति प्लवः । अनेन घप्र० अ । 'नामिनो' ० (४।३।१) गु० ओ । ओदौतोऽवाव्' (१।२।२४) अव् । [प्रणवः] ‘णुक् स्तुतौ' (१०८१) णु । 'पाठे धात्वादेर्णो नः' (२।३।९७) नु, प्रपूर्व० । प्रणूयते प्रकर्षेण स्तूयतेऽनेनेति वा = प्रणवः । अनेन घप्र० अ । 'नामिनो' ० (४|३|१) गु० ओ । ओदौतोऽवाव्' (१।२।२४) अव् । 'अदुरुपसर्गान्तरो ण - हिनु- मीना - ऽऽनेः' (२३।७७) णत्वम् । - [करः] 'डुकृंग् करणे' (८८८) कृ । क्रियते कार्यं द्रव्यवृद्धि वाऽनेनेति करो हस्तो राजदेवभागो वा । अनेन घप्र० → अ। 'नामिनो'० (४।३।१) गु० अर् । [ प्रत्ययः ] 'इंण्क् गतौ' (१०७५) इ, प्रतिपूर्व० । प्रतीयते - निश्चीयते जनोऽनेनेति प्रत्ययः । अनेन घप्र० अ । 'नामिनो'० (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । [ शरः ] कृ ( १५२९) मृ ( १५२०) 'शृश् हिंसायाम् ' (१५३१) शृ । शीर्यते प्राणिनां प्राणत्यागो विधीयतेऽनेनेति शरः । अनेन घप्र० अ । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० अर् । आधारे - [ आकरः ] 'डुकंग् करणे' (८८८) कृ, आङ्पूर्व० । एत्य कुर्वन्त्यस्मिन्नित्याकरः । अनेन घप्र० अ । 'नामिनो' ० (४|३|१) गु० अर् । [ आलवः] 'लूगूश् छेदने' (१५१९) लू, आङ्पूर्व० । एत्य लुनात्यस्मिन्नित्यालवः । अनेन घप्र० अ । 'नामिनो' ० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [ आपव: ] 'पूग्श् पवने' (१५१८) पू, आङ्पूर्व० । एत्य पुनात्यस्मिन्नित्यापवः । अनेन घप्र० 'नामिनो' ० (४|३|१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [ भवः] 'भू सत्तायाम्' (१) भू । भवन्ति - उत्पद्यन्ते प्राणिनोऽस्मिन्निति भवः । अनेन घप्र० अ । 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [लयः ] 'लींच् श्लेषणे' (१२४८) ली । लीयते जनोऽस्मिन्निति लयः । अनेन घप्र० अ । 'नामिनो’० (४|३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [ भर: ] 'टुडुभृंग्क् पोषणे च' (१९४०) भृ । बिभर्त्ति जनोऽनेनेति भरः । अनेन घ० (४।३।१) गु० अर् । [प्रहर: ] 'हंग् हरणे' (८८५) हृ, प्रपूर्व० । प्रहरति कालं 'नामिनो' ० (४|३|१) गु० अर् । [ प्रसरः ] 'सृ गतौ' (२५) सृ, प्रपूर्व० । प्रसरन्त्यस्मिन्निति प्रसरः । [ अवसरः ] 'सृ गतौ' (२५) सृ, अवपूर्व० । अवसरन्ति जना अस्मिन्नित्यवसरः । [ परिसरः] 'सृ गतौ' (२५) सृ, परिपूर्व० । परिसरन्ति जना अस्मिन्निति परिसरः । Jain Education International → अ । For Private Personal Use Only → अ । 'नामिनो' ० घटिकादिकं जनोऽनेनेति प्रहरः । अनेन घप्र० । www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy