SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः ॥ २३९ [पटपटाया] पटत् मांडणीयइ । अपटत् पटत् भवति = पटपटायते । 'अव्यक्तानुकरणानेकस्वरात् कृभ्वस्तिनाऽनितो द्विश्च' (७।२।१४५) डाचप्र० → आ - द्वित्वं च । 'डाच्-लोहितादिभ्यः षित्' (३।४।३०) षित् क्यप्र० → य । 'डाच्यादौ' (७२।१४९) द्विवचनस्य तस्य लुक् । 'डित्यन्त्यस्वरादेः' (२२१२११४) "अत्"लुक् । पटपटायनं = पटपटाया । अनेन अप्र० । 'अतः' (४।३।८२) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ। शंसूः क्तेऽनिडिति वचनम् ॥छ। तेटो गुरोर्व्यञ्जनात् ॥५।३।१०६ ॥ [क्तेटः] क्तस्य इट् यस्मात् सः = क्तेट, तस्मात् । [गुरोः] गुरु पञ्चमी उसि । [व्यञ्जनात्] व्यञ्जन पञ्चमी ङसि । [ईहा] 'ईहि चेष्टायाम्' (८५७) ईह । ईहनं = ईहा । अनेन अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [ऊहा] 'ऊहि तर्के' (८७०) ऊह् । ऊहनं = ऊहा । अनेन अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ। [ईक्षा] 'ईक्षि दर्शने' (८८२) ईक्ष् । ईक्षणं = ईक्षा । अनेन अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ। [उक्षा] 'उक्ष सेचने' (५६६) उझ् । उक्षणं = उक्षा । अनेन अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [कुण्डा ] 'कुडुङ् दाहे' (६९०) कुड् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) कुन्ड् । कुण्डनं = कुण्डा । अनेन अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ। [ हुण्डा] 'हुडुङ् सङ्घाते' (६८३) हुड् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) हुन्ड् । हुण्डनं = हुण्डा । अनेन अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ। _ [शिक्षा] 'शिक्षि विद्योपादाने' (८७९) शिक्ष् । शिक्षणं = शिक्षा । अनेन अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ। __ [भिक्षा] 'भिक्षि याच्ञायाम्' (८८०) भिक्षु । भिक्षणं = भिक्षा । अनेन अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ। [व्यतीहा ] 'ईहि चेष्टायाम्' (८५७) ईह, वि-अतिपूर्व० । व्यतीहनं = व्यतीहा । अनेन अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ। [व्यतीक्षा] 'ईक्षि दर्शने' (८८२) ईश्, वि-अतिपूर्व० । व्यतीक्षणं = व्यतीक्षा । अनेन अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ। [स्रस्तिः ] 'स्रंसूङ् अवस्रंसने' (९५३) संस् । स्रसनं = स्रस्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । ___ [ध्वस्तिः] 'ध्वंसूङ् गतौ च' (९५४) ध्वंस् । ध्वंसनं = ध्वस्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । [आप्तिः] 'आप्लृट् व्याप्तौ' (१३०७) आप् । आपनं = आप्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy