SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १७२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [कित्] कित् प्रथमा सि । [विदुरः] 'विदक् ज्ञाने' (१०९९) विद् । वेत्तीत्येवंशीलः = विदुरः । अनेन किद् घुरप्र० → उर० । [छिदुरः] 'छिदंपी द्वैधीकरणे' (१४७८) छिद् । छिद्यते इत्येवंशीलः = छिदुरः । अनेन किद् घुरप्र० → उर० । [भिदुरः] 'भिदंपी विदारणे' (१४७७) भिद् । भिद्यते इत्येवंशीलः = भिदुरः । अनेन किद् घुरप्र० → उर० । कित्त्वाद् गुणो न भवति । वेत्तीति तिनिर्देश इतरविदित्रयव्युदासार्थः ॥छ।। भियोरु-रुक-लुकम् ।।५।२७६ ॥ [भियः ] भी पञ्चमी ङसि । [रुरुकलुकम्] रुश्च रुकश्च लुकश्च = रुरुकलुकम् । [भीरुः, भीरुकः, भीलुकः] 'जिभीक् भये' (११३२) भी । बिभेतीत्येवंशीलः = भीरुः - भीरुकः - भीलुकः । अनेन रु-रुक-लुकप्र० । ऋफिडादित्वात् लत्वं प्रयोगानुसरणाद् गरीय इति लाघवार्थं लुकवचनम् ॥छ।। सृ-जीण-नशष्ट्वरप् ॥५।२७७ ॥ [ सृजीनशः] सृश्च जिश्च इण् च नश् च = सृजीण्नश्, तस्मात् । [ट्वरप्] ट्वरप् प्रथमा सि ।। [सृत्वरः, सृत्वरी] 'सं गतौ' (२५) सृ । सरतीत्येवंशीलः = सृत्वरः - सृत्वरी । अनेन ट्वरप्प० → वर । 'हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । द्वितीये 'अणजेयेकण-न-स्नञ्-टिताम्' (२।४।२०) डीप्र० । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । [जित्वरः, जित्वरी] 'जिं अभिभवे' (८) जि । जयतीत्येवंशीलः = जित्वरः - जित्वरी । अनेन ट्वरप्र० → वर०। 'हस्वस्य'० (४|४|११३) तोऽन्तः । द्वितीये 'अणजेयेकण्'० (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । [इत्वरः, इत्वरी] 'इंण्क् गतौ' (१०७५) इ । एतीत्येवंशीलः = इत्वरः - इत्वरी । अनेन ट्वरप्प० → वर० । 'हुस्वस्य'० (४|४|११३) तोऽन्तः । द्वितीये 'अणजेयेकण्'० (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । [नश्वरः, नश्वरी] 'नशौच अदर्शने' (१२०२) नश् । नश्यतीत्येवंशीलः = नश्वर:-नश्वरी । अनेन ट्वरप्र० → वर० । द्वितीये 'अणजेयेकण'० (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । टकारो ड्यर्थः । पकारस्तागमार्थः ॥छा। गत्वरः ।।५।२७८ ॥ [गत्वरः] गत्वरः अखण्डमिदम् । [गत्वरः, गत्वरी] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) 'गम्लुं गतौ' (३९६) गम् । गच्छतीत्येवंशीलः - शीला = गत्वरः, - गत्वरी । अनेन ट्वरप्प्र० → वर० - मस्य तकारो निपात्यते । 'अणजेयेकण्'० (२।४।२०) ङी ॥छा। सम्यजस-हिंस-दीप-कम्प-कम-नमो रः ॥५।२७९ ॥ [सयजसहिंसदीपकम्पकमनमः] स्मिश्च अजसश्च हिंसश्च दीपश्च कम्पश्च कमश्च नम् च = सम्यजसहिंसदीपकम्पकमनम्, तस्मात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy