SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १६६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [सञ्चारी] 'चर भक्षणे च' (४१०) चर्, सम्पूर्व० । सञ्चरतीत्येवंशीलः = सञ्चारी । [अतिचारी] अतिचरतीत्येवंशीलः = अतिचारी । [अपचारी] अपचरतीत्येवंशीलः = अपचारी । [अभिचारी] अभिचरतीत्येवंशीलः = अभिचारी । [व्यभिचारी] व्यभिचरतीत्येवंशीलः = व्यभिचारी । सर्वत्र अनेन घिनणप्र० → इन् । “णिति' (४।३।५०) उपान्त्यवृद्धिः आ ॥छ। समनु-व्यवाद् रुधः ॥ ५।२।६३ ॥ [समनुव्यवात् ] सम् च अनुश्च विश्च अवश्च = तत्, तस्मात् । [रुधः] रुध् पञ्चमी ङसि । [संरोधी ] 'रुधूपी आवरणे' (१४७३) रुध्, सम्पूर्व० । संरुणद्धीत्येवंशीलः = संरोधी । [अनुरोधी ] अनुरुणद्धीत्येवंशीलः = अनुरोधी । [विरोधी] विरुणद्धीत्येवंशीलः = विरोधी । [अवरोधी] अवरुणद्धीत्येवंशीलः = अवरोधी । सर्वत्र अनेन घिनण्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ॥छ। वेर्दहः ॥ ५।२।६४ ॥ [वेः] वि पञ्चमी ङसि । [दहः ] दह पञ्चमी ङसि ।। [विदाही] 'दहं भस्मीकरणे' (५५२) दह, विपूर्व० । विदहतीत्येवंशीलः = विदाही । अनेन घिनणप्र० → इन् । 'णिति' (४।३५०) उपान्त्यवृद्धिः आ ॥छ।। परेवि-मुहश्च ॥ ५।२।६५ ॥ [परेः] परि पञ्चमी ङसि । [ देविमुहः ] देविश्च मुह् च = देविमुह, तस्मात् । [च] च प्रथमा सि । देवीति देवृधातोरण्यन्तस्य ण्यन्तस्य च ग्रहणम्, लाक्षणिकत्वात् दीव्यतेर्ण्यन्तस्य न ग्रहणम् । [ परिदेवी ] तेवृङ् (८१६) - 'देवृङ् देवने' (८१७) देव, परिपूर्व० । परिदेवमानं प्रयुङ्क्ते । 'प्रयोक्तृ'० (३।४।२०) णिगप्र० । परिदेवते - परिदेवयति वा इत्येवंशीलः = परिदेवी । अनेन घिनणप्र० →इन् । 'णेरनिटि' (४।३।८३) णिग्लुक्। [परिमोही] 'मुहौच वैचित्त्ये' (१२३८) मुह, परिपूर्व० । परिमुह्यतीत्येवंशीलः = परिमोही । अनेन घिनणप्र० → - इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy