SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीयः पादः ॥ १५३ [उपस्थायुको गुरुम् ] 'उपतिष्ठतीत्येवंशीलः = उपस्थायुकः । अनेन उकण्प्र० → उक । 'आत ऐ: कृौ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय, गुरुम् । [गुणानधिष्ठायुकः] गुण द्वितीया शस् । अधितिष्ठतीत्येवंशीलः = अधिष्ठायुकः । अनेन उकण्प्र० → उक | 'आत ऐः कृौ ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय' (१।२।२३) आय् । 'अधेः शीङ्-स्था-ऽऽस आधारः' (२।२।२०) इत्यनेन आधारस्य कर्मसंज्ञा । "कर्मणि कृतः' (२।२।८३) इत्यनेन षष्ठीप्राप्ता 'अकमेरुकस्य' (२।२।९३) इत्यनेन निषिध्यते ॥छ। लष-पत-पदः ॥ ५२।४१ ॥ [लषपतपदः] लषश्च पतश्च पद् च = लषपतपद्, तस्मात् । [अपलाषुकं नीचसांगत्यम् ] 'लषी कान्तौ' (९२७) लष्, अपपूर्व० । अपलषतीत्येवंशीलमपलाषुकं नीचसांगत्यम् । अनेन उकण्प्र० → उक । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [अभिलाषुकः] अभिलषतीत्येवंशीलः = अभिलाषुकः । अनेन उकण्प्र० → उक । "णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [ उत्पातुकं ज्योतिः ] 'पत्लु गतौ' (९६२) पत्, उत्पूर्व० । उत्पततीत्येवंशीलमुत्पातुकम् । अनेन उकण्प्र० → उक । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ, ज्योतिः । [प्रपातुका गर्भाः] प्रपतती(न्ती)त्येवंशीलाः = प्रपातुका गर्भाः । अनेन उकणप्र० → उक । “णिति' (४।३।५०) उपान्त्यवृद्धिः आ । प्रथमा जस् । [उपपादुका देवाः] उप 'पदिच् गतौ' (१२५७) पद् । उपपद्यन्त इत्येवंशीलाः = उपपादुका देवाः । अनेन उकण्प्र० → उक । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । प्रथमा जस् ॥छ।। भूषा-क्रोधार्थ-जु-सृ-गृधि-ज्वल-शुचश्चाऽनः ॥ ५।२।४२ ॥ [भूषाक्रोधार्थजुसृगृधिज्वलशुचः] भूषा च क्रोधश्च = भूषाक्रोधौ, भूषाक्रोधावर्धा येषां ते = भूषाक्रोधार्थाः । भूषाक्रोधार्थाश्च जुश्च सृश्च गृधिश्च ज्वलश्च शुच् च = भूषाक्रोधार्थजुसृगृधिज्वलशुच्, तस्मात् । [च] च प्रथमा सि । [अनः] अन प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते'० (१३५३) विसर्गः । [भूषणः कुलस्य] 'भूष अलङ्कारे' (१७५६) भूष् । 'चुरादि'० (३।४।१७) णिच्प्र० । भूषयतीत्येवंशीलः = भूषणः कुलस्य । अनेन अनप्र० । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'र-घुवर्णान्नो ण'० (२।३।६३) णत्वम् । [मण्डना गगनस्य भाः] 'मडुण् भूषायाम्' (१६३३) मड् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) मण्ड् । 'चुरादिभ्यो णिच् (३।४।१७) णिचप्र० । मण्डयतीत्येवंशीला = मण्डना । गगनस्य भाः । अनेन अनप्र० । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'आत्' (२।४।१८) आप्प्र० → आ । [प्रसाधनः] राधं (१३०४) - 'साधंट् संसिद्धौ' (१३०५) साध् । सानुवन्तं प्रयुङ्क्ते' । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । प्रसाधयतीत्येवंशीलः = प्रसाधनः । अनेन अनप्र० । 'णेरनिटि' (४।३।८३) णिग्लुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy