SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [शासतु] शास् । पञ्चमी अन्तु । अनेन नलुक । [शासत्] शास्तीति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । शेषं पूर्ववत् ॥छ।। शौ वा ।।४।२।९५।। [शौ] शि सप्तमी ङि । [वा] वा प्रथमा सि । [ददति, ददन्ति कुलानि] 'डुदांग दाने' (११३८) दा । ददतीति यानि कुलानि तानि । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । 'हवः शिति' (४।१।१२) द्वि: । 'हस्वः' (४1१1३९) ह्रस्वः । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि०→इ० । धुटां प्राक्' (१।४।६६) नोऽन्तः । अनेन वा नलुक् । 'श्नश्चाऽऽतः' (४।२।९६) आलुक् । [जक्षति, जक्षन्ति कुलानि] 'जक्षक भक्ष-हसनयोः' (१०९१) जश् । जक्षतीति यानि कुलानि तानि । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'धुटां प्राक' (१।४।६६) नोऽन्तः । अनेन वा नलुक । [दरिद्रति, दरिद्रन्ति कुलानि] 'दरिद्राक दुर्गतौ' (१०९२) दरिद्रा । दरिद्रतीति यानि कुलानि तानि । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'धुटां प्राक्' (१।४।६६) नोऽन्तः । अनेन वा नलुक् । 'श्नश्चाऽऽतः' (४।२।९६) आलुक् । [जाग्रति, जाग्रन्ति कुलानि] 'जागृक निद्राक्षये' (१०९३) जागृ । जाग्रतीति यानि कुलानि तानि । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'धुटां प्राक् (१।४।६६) नोऽन्तः । अनेन वा नलुक् । [चकासति, चकासन्ति कुलानि] 'चकासृक् दीप्तौ' (१०९४) चकास् । चकासतीति यानि कुलानि तानि । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'धुटां प्राक्' (१।४।६६) नोऽन्तः । अनेन वा नलुक् । [शासति, शासन्ति कुलानि] 'शासूक अनुशिष्टौ' (१०९५) शास् । शासतीति यानि कुलानि तानि । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । प्रथमा जस् । 'नपुंसकस्य शिः' (११४५५) शि० → इ० । 'धुटां प्राक्' (१।४।६६) नोऽन्तः । अनेन वा नलुक् । [ददती, दधती कुले] दत्त इति, धत्त इति येषु कुले(षु) ते । शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । 'औरीः' (११४५६) औ→ई । 'हवः शिति' (४1१1१२) द्वि: । हूस्वः' (४।१।३९) ह्रस्वः । अवर्णादश्नोऽन्तो वाऽतुरीड्योः' (२१११५) अत्० → अन्त० । 'अन्तो नो लुक्' (४।२।९४) नलुक् ।।छ।। श्नश्चाऽऽतः ।।४।२।१६।। [श्नः] श्ना षष्ठी डस् । 'लुगाऽऽतोऽनापः' (२1१1१०७) आलुक । [च] च प्रथमा सि । #P. संज्ञकहस्तप्रतौ 'धुटां प्राक्' (१।४।६६) सूत्रस्थाने 'ऋदुदितः' (१।४।७०) सूत्रमस्ति । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy