SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥ ३७ 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (न्या० सं० वक्ष० (१) / सूत्र (२९) स्था । अस्थात् कश्चित्, तं तस्थिवांसमन्यः प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । अद्यतनी दि → त् - ताम् - अन् । अनेन आ० → इ० । पूर्वं ‘अतिरी-ब्ली-ही०' (४।२।२१) पोऽन्तः । 'णि-शि-द्रु-सु०' (३४।५८) इप्र० । “स्थिप्' द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'अघोषे शिटः' (४।१।४५) सलोपः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) थ० → त० । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् । [अतास्थपत भृशं पुनः पुनर्वा तिष्ठति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० । द्विः । 'अघोषे शिटः' (४।१।४५) सलोपः । 'हस्वः' (४।१।३९) हूस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) थ० → त० । 'आ-गुणावन्यादेः' (४१११४८) आ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । तिष्ठन्तं(तास्थतं) प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'अर्त्ति-री-ब्लीह्री-क्नूयि०' (४।२।२१) पोऽन्तः । अद्यतनी दि→त् । 'णि-शि-दु-स्र-कमः०' (३।४।५८) डप्र० । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ह्रस्वः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । ‘अड् धातोरादि०' (४।४।२९) अट् ।।छ।। ऊद् दुषो णौ ॥४।२।४०॥ [ऊत्] ऊत् प्रथमा सि । [दुषः] दुष् षष्ठी डस् । [णौ] णि सप्तमी ङि । [दूषयति] 'दुषंच वैकृत्ये' (१२०९) दुष् । दुष्यन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । अनेन ऊत् । वर्त० तिव् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [प्रदूष्य गतः] दुष्यन्तं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । अनेन ऊत् । प्रदूषणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'णेरनिटि' (४।३।८३) णिग्लोपः । गत प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । ‘रः पदान्ते०' (१।३।५३) विसर्गः । दोषो वर्त्तते] दुष् । दोषणं = दोषः । 'भावा-ऽकोः ' (५।३।१८) घञ्प्र० । ‘लघोरुपान्त्यस्य' (४१३।४) गु० ओ । प्रथमा सि । __ [दुषयति] दुष् । दोषणं = दुट् । क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । दुषमाचष्टे । 'णिज्बहुलं०' (३।४।४२) णिज(च)प्र० →इ । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४३19) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । पुनर्णिग्ग्रहणं अनिवृत्त्यर्थम्, डे ह्रस्वो न भवतीत्यन्ये, तन्मतसंग्रहार्थमूकारप्रश्लेषो विधेयः । [अदुदूषत्] दुष् । भृशं पुनः पुनर्वा दुष्यति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । ‘सन्-ग्रडश्च' (४।१।३) द्विः । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । दुदुषन्तं(दोदुषतं) प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । अनेन ऊत् । ‘णेरनिटि' (४।३।८३) णिग्लोपः । ‘अड् धातोरादि०' (४।४।२९) अट् । स्वमते तु अदूदुषत् ।।छ।। चित्ते वा ।।४।२।४१॥ [चित्ते] चित्त सप्तमी ङि । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy