SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [चाहयति] 'चहण कल्कने' (५५३) चहू । चहन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ज्णिति' (४१३५०) उपान्त्यवृद्धिः आ । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [अचाहि चाहि । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच-तलोपश्च । 'णेरनिटि' (४।३।८३) णिगलोपः । 'अड् धातोरादि०' (४।४।२९) अट् । [चाहंचाहम्] अभीक्ष्णं चाहणं(नं) पूर्वम् । 'खणम्-चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प० । ‘णेरनिटि' (४।३।८३) णिगलोपः । 'भृशा-55भीक्ष्ण्या -ऽविच्छेदे०' (७।४।७३) द्वि: ।।छ।। ज्वल-हल-हमल-ग्ला-स्ना-वनू-बम-नमोऽनुपसर्गस्य वा ।।४।२।३.२।। ज्वलहलहमलग्लास्नावनूवमनमः] ज्वलश्च हलश्च हमलश्च ग्लाश्च स्नाश्च वनूश्च वमश्च नम् च = ज्वलहलहमलग्लास्नावनूवमनम्, तस्य । [अनुपसर्गस्य न विद्यते उपसर्गो यस्य तत, तस्य । [ज्वलयति, ज्वालयति 'ज्वल दीप्तौ' (९६०) ज्वल् । ज्वलन्तं प्रयुक्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप० । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः आ । अनेन वा ह्रस्वः । वर्त्त० तिव् । 'कतर्यनभ्यः शव' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदेतोऽयाय्' (१।२।२३) अय् । हलयति, हालयति] 'हल चलने' (१०५६) हल । हलन्तं प्रयुक्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृन्द्रिः आ । अनेन वा हस्वः । वर्त० तिव् । 'कर्त्तर्यनभ्यः शव' (३।४७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [हमलयति, हमालयति] 'मल चलने' (१०५७) मल । हमलन्तं प्रयुक्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप० । ‘णिति' (४।३।५०) उपान्त्यवृद्धिः आ । अनेन वा ह्रस्वः । वर्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽविडति' (४१३१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय । [ग्लपयति, ग्लापयति] ‘ग्लैं हर्षक्षये' (३१) ग्लै । 'आत् सन्ध्यक्षरस्य' (४।२।१) ग्ला । ग्लायन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । अनेन वा हस्वः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [स्नपयति, स्नापयति] ‘ष्णांक शौचे' (१०६४) ष्णा । 'षः सोऽष्ट्यै-ष्टिव-प्वष्कः' (२।३।९८) स्ना । स्नान्तं प्रयुक्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प० । 'अर्ति-री-क्ली-ही-क्नूयि०' (४।२।२१) पोऽन्तः । अनेन वा ह्रस्वः । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । वनयति, वानयति] 'वनूयि याचने' (१५०६) वन् । वन्वानं प्रयुक्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । अनेन वा हस्वः । वर्त० तिन् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽकडिति' (४।३१) गु० ए । 'एदैतोऽयाय' (११२।२३) अय् । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy