SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । क्नासंबनासम्, क्नसक्नसम] क्नसि । अभीक्ष्णं क्नसनं पूर्वम् । ‘ख्णम-चाभीक्ष्ण्ये' (५।४।४८) ख्णमप्र० । अनेन वा दीर्घः । 'भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे०' (७।४।७३) द्विः । रजयति मृगान् व्याधः] 'रञ्जी रागे' (८९६) रा । रजन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग' (३।४।२०) णिगप० । 'णी मृगरमणे' (४।२।५१) पूर्वं नलोपः । वृद्धिः । ततोऽनेन ह्रस्वः । [अराजि, अरजि] ह्रस्वयुतः कृते नलोपे रजि । अद्यतनी त । 'भाव-कर्मणोः' (३।४६८) जिच्-तलोपश्च । अनेन वा दीर्घः । ‘अड् धातोरादि०' (४।४।२९) अट् । [राजराजम, रजरजम] रजि । अभीक्ष्णं रञ्जनं पूर्वम् । 'ख्णम्-चाभीक्ष्ण्ये' (५।४।४८) खणमप्र० । अनेन वा दीर्घः । ‘णेरनिटि' (४।३।८३) सर्वत्र णिग्लोपः । 'भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे० ' (७।४।७३) द्विः । [स्नसयति] ‘ष्णसूच निरसने' (११६९) ण्णस् । 'पः सोऽष्ट्यै-ष्टिव-प्वष्कः' (२।३।९८) स्नस् । स्नस्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । वृद्धौ अनेन मतान्तरे ह्रस्वः ।। [अकगीत्] ‘कगे मिथःसंप्रहारे' (१९८९) कग् इति सौत्रो धातुः । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।२९) इट् । ‘इट ईति' (४।३७१) सिच्लोपः । 'व्यञ्जनादेर्वोपान्त्यस्याऽतः' (४।३।४७) इत्यनेन वृद्धिः प्राप्ता 'न श्वि-जागृ-शस-क्षण-हम्येदितः' (४।३।४९) इति एदितत्वात् न भवति । 'समानानां तेन दीर्घः' (१४२११) दीर्घः । 'अड़ धातोरादि०' (४।४।२९) अट् । वनू इत्यूकारनिर्देशात् अग्रेतनस्यास्य न भवति [वानयति] 'वन भक्तौ' (३२९) वन् । वनन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । वृद्धिः । वर्त्त तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [अवानि] णिगन्तो वानि मण्ड्यते । अद्यतनी त । ‘भाव-कर्मणोः' (३।४।६८) जिच्-तलोपश्च । ‘अड् धातोरादि०' (४।४।२९) अट् । [वानवानम्] वानि । अभीक्ष्णं वाननं पूर्वम् । 'ख्णम्-चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प० । ‘णेरनिटि' (४।३।८३) णिगलोपः । 'भृशा-5ऽभीक्ष्ण्या०' (७।४।७३) द्वि: । अर्थान्तरे तु [उद्घाटयति] उत् ‘घटिए चेष्टायाम्' (१०००) घट् । उद्घटमानं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः आ । नियोजयति द्वारम् । [श्रापयति] 'श्रांक पाके' (१०६५) श्रा । श्रान्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । अतिरी-व्ली-ही-क्नूयि-क्ष्माय्यातां पुः' (४।२।२१) पोऽन्तः । खेदयति । [स्मारयति] 'स्मृ चिन्तायाम्' (१८) स्मृ । स्मरन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । स्मृ इति धातुः उत्कण्ट्यपूर्वके स्मरणे वर्त्तते, अत्र तु स्मरणमात्र । [दारयति] 'दृ भये' (१०१५) दू । दरन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'नामिनोऽकलिहलेः' (४३५१) वृद्धिः आर् । विदारणेऽर्थे वर्त्तते । [नाटयति ‘णट नृत्तौ' (१८७) णट् । 'पाठे धात्वादेो नः' (२।३।९७) नट् । नटन्तं पयुक्ते । 'प्रयोक्तृव्यापारे णिग' (३।४।२०) णिगप० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । नर्त्तयतीत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy