SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ।। ३४९ [अशिषत्] 'शासूक् अनुशिष्टौ' (१०९५) शास् । अद्यतनी दि → त् । 'शास्त्यसू-वक्ति-ख्यातेरङ्' (३।४।६०) अड्प० । अनेन आस्० → इस्० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । . [शिष्टः] शास् । शिष्यते स्म । क्तप्र० । अनेन आस्० → इस्० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्ववर्ग-ष्टवर्गाभ्यां योगे च-टवर्गो' (१।३।६०) त० → ट० । । [अनुशिष्टिः] अनुशासनं == अनुशिष्टिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन आस्० → इस्० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य०' (१।३।६०) त० → ८० । [शिष्ट्वा] शासनं पूर्वम् । 'पाक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन आस्० → इस्० । 'नाम्यन्तस्थाकवर्गात्०' (२।३।१५) षत्वम् । जस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६०) त० → ८० । [अनुशिष्य अनुशासनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । अनेन आस्० → इस्० । [शिष्यः] शिष्यत इति । 'दृ-वृग्-स्तु-जुषेति-शासः' (५।१।४०) क्यप्प्र० → य । अनेन आस्० → इस् । 'नाम्यन्तस्था०' (२।३।१५) पत्वम् । [शिष्यते] शास् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । अनेन आस्० → इस० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [शेशिष्यते शास् । भृशं पुनः पुनर्वा शिष्यते (शास्ति) । 'व्यअनादेरेकस्वराद्' (३।४।९) यप्र० । अनेन आस० → इस्० । 'सन्-यडश्च' (४।१३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । वर्त्त० ते । 'नाम्यन्तस्था-कवर्गात्' (२।३।१५) पत्वम् । [शिष्ट:] शास् । वर्त्त० तस् । अनेन आस्० → इस्० । 'नाम्यन्तस्था-कवर्गात् पदान्तः०' (२।३।१५) षत्वम् । 'तवर्गस्य श्ववर्ग०' (१।३।६०) त० → ८० ।। [शिष्ठः] शास् । वर्त्त० थस् । अनेन अस्० → इस्० । 'नाम्यन्तस्था-कवर्गात०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६०) थ० → ठ० । - [शिष्वः] शास् । वर्त्तः वस् । अनेन आस्० → इस्० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [शिष्मः] शास् । वर्त० मस् । अनेन आस्० → इस्० । 'नाम्यन्तस्था कवर्गात्०' (२।३।१५) षत्वम् । शासः शिसित्यकृत्वा आस इस्विधानं यड्लुपि[शाशिष्टः] शास् । भृशं पुनः पुनर्वा शास्ति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यङ्य० । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'सन्-यडश्च' (४।१।३) द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० तस् । अनेन आस्० → इस्० । 'नाम्यन्तस्था-कवर्गात् पदान्तः०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६०) त० → ट०, इत्यादि प्रयोगार्थम् । [शशासतुः] शास् । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे प्राक् तु स्वरे स्वरविधेः' (४।१।१) द्विः । 'ह्रस्वः' (४।१।३९) हस्वः । ॐ वृहद्वृत्तौ - अनुशिष्टः । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy