SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३२५ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ 'अड् धातोरादि०' (४।४।२९) अट् । धान्य द्वितीया अम् । चैत्र प्रथमा सि ।।छ।। ईशीड: से-ध्वे-स्व-ध्वमोः ।।४।४।८७।। [ईशीडः] ईश् च ईड् च = ईशीड्, तस्मात् । [सेध्वेस्वध्वमोः] सेश्च ध्वेश्च = सेध्वे, स्वश्च ध्वम् च = स्वध्वम्, सेध्वेश्च स्वध्वम् च = सेध्वेस्वध्वमौ, तयोः - सेध्वेस्वध्वमोः । षष्ठी ओस् । [ईशिषे] 'ईशिक ऐश्वर्ये' (१११६) ईश् । वर्त० से । अनेन इट् । 'नाम्यन्तस्था०' (२।३१५) षत्वम् । [ईशिध्वे] ईश् । वर्त्तः ध्वे । अनेन इट् । [ईशिष्व] ईश् । पञ्चमी स्व । अनेन इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [ईशिध्वम्] ईश् । पञ्चमी ध्वम् । अनेन इट् । [ईडिषे] 'ईडिक् स्तुतौ' (१११४) ईड् । वर्त० से । अनेन इट् । 'नाम्यन्तस्था-कवर्गात्' (२।३।१५) षत्वम् । [ईडिध्वे] ईड् । वर्त्तः ध्वे । अनेन इट् । [ईडिष्व] ईड् । पञ्चमी स्व । अनेन इट् । 'नाम्यन्तस्था-कवर्गात्' (२।३।१५) षत्वम् । [ईडिध्वम्] ईड् । पञ्चमी ध्वम् । अनेन इट् । स्वसहचरितस्य ध्वमो ग्रहणात् ह्यस्तनीध्वमि इट् न भवति - [ऐड्ढ्वम्] ईश्-ईड् । ह्यस्तनी ध्वम् । 'स्वरादेस्तासु' (४।४।३१) वृ० ऐ । 'यज-सृज-मृज-राज-भ्राज-भ्रस्ज-वस्चपरिवाजः शः षः' (२।१।८७) श० → प० । 'तवर्गस्य०' (१।३।६०) ध० → ढ० । 'तृतीयस्तृतीय०' (१।३।४९) ष० → ड०। परोक्षासे-ध्वयोरामा भाव्यमिति वर्तमानासे-ध्वयोर्ग्रहणम् । वचनभेदो यथासंख्यनिवृत्त्यर्थः ।।छ।। रुत्पञ्चकाच्छिदयः ।।४।४।८८|| [रुत्पञ्चकात्] रुच्च ३, पञ्चेति संख्यामानमस्य = पञ्चकः(कम्) । ‘संख्या-डतेश्चाऽशत्-ति-ष्टेः कः' (६।४।१३०) कप्र० । रुदां पञ्चकं = रुत्पञ्चकम्, तस्मात् । [शिदयः] श् इदनुबन्धो यस्याऽसौ शित्, न य = अय, शिच्चासौ अय् च = शिदय, तस्य । [रोदिति] 'रुदृक् अश्रुविमोचने' (१०८७) रुद् । वर्त्त तिव् । अनेन इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [रुदितः] रुद् । वर्त० तस् । अनेन इट् । [स्वपिति] 'जिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्ट्यै-ष्ट्वि-ष्वष्कः' (२।३।९८) स्वप् । वर्त्तः तिव् । अनेन इट् । [स्वपितः] स्वप् । वर्तः तस् । अनेन इट् । [प्राणिति] 'अन प्राणने' (१०८९) अन, प्रपूर्व० । वर्त्त० तिव् । अनेन इट् । 'द्वित्वेऽप्यन्तेप्यनितेः परेस्तु वा' (२।३।८१) न० → ण । P. ॥ शस्य षत्वे 'धुटस्तृतीयः' (२।१७६) ५० → ड० । 'तवर्गस्य०' (१।३।६०) ध० → ढ० ।। Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy