SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥ वृद्धिः ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । [स्फारयति, स्फोरयति] 'स्फुरत् स्फुरणे' (१४६०) स्फुर् । स्फुरन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । अनेन वा उ० आ० । पक्षे 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । वर्त्त० तिव् । गुणे सति 'एदैतोऽयाय्' (१।२।२३) अय् । 'स्फु (फ) र ' (१३९८ ) - 'स्फु (फ) लत् स्फुरणे' (१३९९) इत्यनेनैव सिद्धे स्फुरेरात्ववचनं ण्यन्तात् सनि पुस्फारयिषती - त्येवमर्थम् ।।छ। वियः प्रजने ||४ | २|१३॥ [वियः] वी षष्ठी डस् । ' धातोरिवर्णोवर्णस्येयुव् स्वरे प्रत्यये' (२।१।५० ) इय् । [प्रजने] 'जनैचि प्रादुर्भावे' (१२६५) जन्, प्रपूर्व० । प्रजननं = प्रजनः | 'भावा ऽकर्त्री : ' ( ५।३।१८) घञ्प्र० । 'न जन- वधः' (४।३।५४ ) इत्यनेन वृद्धिनिषेधः तस्मिन् । [पुरो वातो गाः प्रवापयति प्रवाययति ] पूर्व । पूर्वस्या दिश आगतः । 'पूर्वा ऽवरा-ऽधरेभ्योऽसस्तातौ पुरवधश्चैषाम्' (७।२।११५) अस्प्र० - पूर्वस्य पुरस् । प्र० सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । वात प्रथमा सि । गो द्वितीया शस् । 'आ अम्-शसोऽता' (१।४।७५ ) गाः । 'वक् प्रजन-कान्त्यसनखादनेषु च ' (१०७६) वी, प्रपूर्व० । प्रवियन्ति गावस्ताः प्रवियतीः पुरो वातः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । अनेन वा आ । 'अर्त्ति - री - व्ली - ही- क्नूयि० (४।२।२१) पोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । पक्षे 'नामिनोऽकलि-हले ः ' ( ४ | ३ |५१) वृद्धिः ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । गर्भं ग्राहयतीत्यर्थः । वातेः प्रजने वृत्तिर्नास्तीत्यारम्भः || छ || [रुहः] रुह् षष्ठी डस् । [प] प प्रथमा सि । ९ रुहः पः || ४|२|१४|| [रोपयति, रोहयति ब्रीहीन्] 'रुहं जन्मनि' (९८८) रुह् । रोहन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । अनेन वा पोऽन्तः । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ओ । रोहत्यर्थे रुप्यतिर्न दृश्यते इति योगारम्भः ||छ। Jain Education Intemational = लियो नोऽन्तः स्नेहवे ||४|२|१५|| लीः, तस्य । षष्ठी ङस् । 'धातोरिवर्णोवर्णस्येयुव्०' (२।१।५०) इय् । [लियः ] लियः ई [नः ] न प्रथमा सि । 'सो रुः ' (२।१।७२ ) स०र० । [ अन्तः ] अन्त प्रथमा सि । [स्नेहद्रवे] स्नेहस्य द्रवः = स्नेहद्रवस्तस्मिन् । [घृतं विलीनयति, विलाययति ] 'लींश् श् लेषणे' (१५२६) ली । 'लींच् श्लेषणे' (१२४८) ली, विपूर्व० । For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy