SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥ [ आतः ] आत् पञ्चमी इसि । [णवः ] व् षष्ठी डस् । आतो णव औ || ४|२| १२० || [ औ] औ प्रथमा सि । सूत्रत्वात् लुप् । वेति निवृत्तम् । अत्र ओकारेणैव सिद्धे औकारकरणं ददरिद्रावित्याद्यर्थम्, अन्यथा 'अशित्यस्सन्०' (४।३।७७ ) इति आलोपे इदं न सिध्येत् नन्वत्रामादेशेन भाव्यं तत्कथमेतदर्थम् ? सत्यम्, अत एव औकारकरणादामादेशस्याऽनित्यत्वम् । [पपौ] 'पां पाने' (२) पा । परोक्षा णव् । 'द्विर्धातुः परोक्षा- ङे, प्राक् तु स्वरे स्वरविधेः' (४।१।१) “पा”द्विः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । अनेन व्० औ० । 'ऐदौत् सन्ध्यक्षरैः ' (१।२।१२ ) औ । [तस्थौ सः ] 'ष्ठां गतिनिवृत्तौ ' ( ५ ) ष्ठा । ' षः सोऽष्ट्यै-ष्ठिव - ष्वष्कः ' (२।३।९८) स्था । 'निमित्ताभावे नैमित्तिकस्याऽप्यभावः' (न्या० सं० वक्ष० ( १ ) / सूत्र (२९)) स्था । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'अघोषे शिटः ' ( ४।१।४५) सलोपः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) थ० त० । अनेन व् → औ० । 'ऐदीत् सन्ध्यक्षरैः ' (१।२।१२ ) औ । ९७ [सुप्तोऽहं किल ययौ ] सुप्त प्रथमा सि । अस्मद् प्रथमा सि । त्वमहं सिना प्राक् चाऽकः ' (२।१।१२) “अहम्” आदेश: । 'यांक प्रापणे' (१०६२) या । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) "या द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । अनेन णव्० → औ० । 'ऐदौत् सन्ध्यक्षरैः' (१।२।१२ ) औ । 'कृताऽस्मरणा - ऽतिनिह्नवे परोक्षा' (५।२।११) इति परोक्षा । [ स जगाम ] अम (३९२) द्रम ( ३९३ ) - हम्म (३९४) मीमृ ( ३९५) - 'गम्लं गतौ' (३९६) गम् । परोक्षा णव् । ‘द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ग- होर्ज : ' ( ४।१।४० ) ज० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । ग० ए । [सुप्तोऽहं किल विललाप ] वि-रप ( ३३५ ) - 'लप व्यक्ते वचने' (३३६) लप् । परोक्षा णव् । 'द्विर्धातुः परोक्षाङे०' (४।१।१) द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । ‘णिद्वान्त्यो णव्' ( ४ | ३ |५८) णित् ||छ || आतामाते- आथामाथे आदिः ||४|२|१२१ ॥ [ आतामाते आथामाथे] आताम् च आतेश्च च आथाम् च आथेश्च = तत् तेषाम् । सूत्रत्वात् लुप् । [आत्] अ पञ्चमी इसि । 'डे- डस्योर्याऽऽतौ' (१।४।६) आत् । [इ] इ प्रथमा सि । 'सो रु: ' (२1१।७२ ) स०र० । रः पदान्ते विसर्गस्तयोः ' (१।३।५३) विसर्गः । [पचेताम्] 'डुपचष् पाके' (८९२) पच् । पञ्चमी आताम् । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् । अनेन आ० → इ० । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ए । [पचेते] पच् । वर्त्त० आते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । अनेन आ० इ० । 'अवर्णस्ये० ' (१।२।६) Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy