SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य द्वितीयः पादः ।। ८५ [श्ये] श्य सप्तमी ङि । [अवधति] 'दों छेदने' (११४८) दो, अवपूर्व० । वर्त्त० तिव् । 'दिवादेः श्यः' (३।४७२) श्यप्र० → य । अनेन ओलुक् । [अवस्यति] 'षोंच अन्तकर्मणि' (११५०) षो, अवपूर्व० । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सो । वर्त्तः तिव् । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । अनेन ओलुक् । निश्यति 'शोंच तक्षणे' (११४७) शो, निपूर्व० । वर्त्त० तिव् । 'दिवादे: श्यः' (३।४।७२) श्यप्र० → य । अनेन ओलुक् । [अवच्छयति] दो (११४८) - ‘छोंच् छेदने' (११४९) छो, अवपूर्व० । वर्त्तः तिव् । 'दिवादे: श्यः' (३।४।७२) श्यप्र० → य । अनेन ओलुक् । [गवति] गो । गौरिवाऽऽचरति । 'कर्तुः क्विप०' (३।४।२५) क्विपप्र० । 'अप्रयोगीत' (१११३७) क्विपलोपः । वर्त्त तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'ओदौतोऽवाव्' (१।२।२४) अव् ।।छ।। जा ज्ञा-जनोऽत्यादौ ।।४।२।१०४।। [जा] जा प्रथमा सि । सूत्रत्वात् लुप् । [ज्ञाजनः] ज्ञाश्च जन् च = ज्ञाजन्, तस्य । [अत्यादौ] तिरादिर्यस्य सः = त्यादिः, न त्यादिरत्यादिस्तस्मिन् । [जानाति] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । वर्त्तः तिव् । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । अनेन ज्ञा० → जा० । [जानीते] ज्ञा । वर्त्त० ते । 'ज़्यादेः' (३।४।७९) श्नाप्र० → ना । 'एषामी व्यञ्जनेऽदः' (४।२।९७) ई । अनेन ज्ञा० → जा० । 'ज्ञोऽनुपसर्गात्' (३।३।९६) आत्मनेपदम् । [जानन] ज्ञा । जानातीति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । अनेन जा० । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । 'श्नश्चाऽऽतः' (४।२।९६) आलुक । प्रथमा सि । 'ऋदुदितः' (११४७०) नोऽन्तः । दीर्घयाब्-व्यञ्जनात् सेः' (१।४।४५) सिलुक । 'पदस्य' (२191८९) तलोपः । [जानानः] ज्ञा । जानीते इति । 'शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० → आन । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । 'श्नश्चाऽऽतः' (४।२।९६) आलुक । अनेन जन० → जादेशः । जायते] 'जनैचि प्रादुर्भावे' (१२६५) जन् । वर्त्त० ते । “दिवादेः श्यः' (३।४।७२) श्यप्र० →य । अनेन जन० → जादेशः । [जायमानः] जन् । जायते । ‘शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० → आन । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । 'अतो म आने' (४।४।११४) मोऽन्तः । अनेन जन० → जादेशः । [ज्ञायते] ज्ञा । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy