SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पाद: ।। भ्राष्ट्रा-ऽग्नेरिन्धे ॥३।२११४॥ [भ्राष्ट्राऽग्नेः] भ्राष्ट्रश्च अग्निश्च = भ्राष्ट्राग्निः, तस्मात् । [भ्राष्ट्रमिन्धः] + भ्राष्ट्रस्येन्धः । अनेन मोऽन्तः । [अग्निमिन्धः] अग्नेरिन्धः । अनेन मोऽन्तः ।।छ।। अगिलाद गिल-गिलगिलयोः ॥३।२११५॥ [अगिलात] न गिलोऽगिलः । 'नञत्' (३।२।१२५) न० → अ०, तस्मात् । [गिलगिलगिलयोः] गिलश्च गिलगिलश्च = गिलगिलगिलौ, तयोः । [तिमिङ्गिलः] तिमि । 'गृत् निगरणे' (१३३५) गृ । तिमि गिलतीति । 'मूलविभुजादयः' (५।११४४) कप्र० । 'ऋतां विडतीर्' (४।४।११६) इर् | 'नवा स्वरे' (२।३।१०२) लत्वम् । अनेन मोऽन्तः । _[मत्स्यङ्गिलः] मत्स्यं गिलतीति । 'मूलविभुजादयः' (५।१।१४४) कप० । 'ऋतां क्ङितीर्' (४।४।११६) इर् । 'नवा स्वरे' (२।३।१०२) लत्वम् । अनेन मोऽन्तः । [बालङ्गिलो राक्षसः] बालं गिलतीति । 'मूलविभुजादयः' (५।१।१४४) कप्र० । 'ऋतां विडतीर्' (४।४।११६) इर् । 'नवा स्वरे' (२।३।१०२) लत्वम् । अनेन मोऽन्तः । राक्षस् । रक्षोऽपत्यम् । 'प्रज्ञादिभ्योऽण' (७।२।१६५) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । [तिमिङ्गिलगिलः] तिमीनां गिलगिलः । अनेन मोऽन्तः । [धूर्गिलः] धुर् । 'गृत् निगरणे' (१३३५) गृ । धुरं गिलतीति । 'मूलविभुजादयः' (५।११४४) कप० । 'ऋतां विडतीर्' (४।४।११६) इर् । 'नवा स्वरे' (२।३।१०२) लत्वम् । [तिमिगिलगिलः] तिर्मिगिलं गिलतीति । 'मूलविभुजादयः' (५।१।१४४) कप्र० । 'ऋतां विडतीर्' (४।४।११६) इर् । 'नवा स्वरे' (२।३।१०२) लत्वम् । [गिलगिलः] गिलं गिलतीति । 'मूलविभुजादयः' (५११४४) कप्र० । 'ऋतां विडतीर्' (४।४।११६) इर् । 'नवा स्वरे' (२।३।१०२) लत्वम् ॥छ।। भद्रोष्णात् करणे ॥३।२।११६॥ [भद्रोष्णात्] भद्रश्च उष्णश्च = भद्रोष्णम्, तस्मात् । [भद्रकरणम्] भद्र । 'डुकंग करणे' (८८८) कृ । क्रियतेऽनेनेति । 'कृगः खनट् करणे' (५1१1१२९) खनटप्र० → अन । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । भद्रस्य करणम् । अनेन मोऽन्तः । [उष्णंकरणम] उष्णस्य करणम् । अनेन मोऽन्तः ।।छ।। P.卐 तत्, तस्मात् । P. + 'जिइन्धैपि दीप्तौ' (१४९८) इन्ध् । इन्धानं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । इन्धनम् । 'युवर्ण-वृ-दृ०' (५।३।२८) इत्यादिना अल् । यद्वा इध्यतेऽनेनेति । 'पुन्नाम्नि घः' (५।३।१३०) घप्र० । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy