SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । इ । अनेन । 'अवर्णवर्णस्य' (७।४।६८) इलोपः । [यष्टीयष्टि, यष्टायष्टि] यष्टिभिश्च (२) मिथः प्रहृत्य कृतं युद्धम् । ‘इच् युद्धे' (७।३।७४) इच्समासान्तः → इ । अनेन । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । [दण्डादण्डि] दण्डैश्च (२) मिथः प्रहृत्य कृतं युद्धम् । ‘इच् युद्ध' (७।३।७४) इच्समासान्तः → इ । अनेन दीर्घः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । [दोर्दोषि] दोस् २ । दोर्भिश्च (२) मिथः प्रहृत्य कृतं युद्धम् । 'इच् युद्धे' (७।३।७४) इच्समासान्तः → इ । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [धनुर्धनुषि] धनुस् २ । धनुर्भिश्च (२) मिथः प्रहृत्य कृतं युद्धम् । 'इच् युद्धे' (७।३।७४) इच्समासान्तः →इ। 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [अस्यसि] असिभिश्च (२) मिथः प्रहृत्य कृतं युद्धम् । [इष्विषवि] इषुभिश्च (२) मिथः प्रहृत्य कृतं युद्धम् । 'इच् युद्धे' (७।३।७४) इच्समासान्तः →इ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ।।छ।। । हविष्यष्टनः कपाले ।।३।२।७३।। [अष्टनः] अष्टन् षष्ठी डस् । [अष्टाकपालं हविः] अष्टन् । कपाल । अष्टसु कपालेषु संस्कृतम् । 'संस्कृते भक्ष्ये' (६।२।१४०) अण्प्र० । 'द्विगोरनपत्ये य-स्वराऽऽदेर्लुबद्विः' (६।१।२४) अण्लुप् । अनेन दीर्घः । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । [अष्टकपालम] अष्टानां कपालानां समाहारः = अष्टकपालम् । सि-अम् । । [अष्टपात्रं हविः] अष्टसु पात्रेषु संस्कृतम् । 'संस्कृते भक्ष्ये' (६।२।१४०) अण्प्र० । 'द्विगोरनपत्ये०' (६।११२४) अण्लुप् ॥छ।। गवि युक्ते ।।३।२।७४।। [अष्टागवं शकटम्] अष्टन् । गो । अष्टौ गावो युक्ता अस्मिन्निति । ‘गोस्तत्पुरुषात्' (७।३।१०५) अट्समासान्तः । 'अस्वयम्भुवोऽव्' (७।४७०) अव् । अनेन दीर्घः । अथवा अष्टानां गवां समाहारः = अष्टगवम् । ‘गोस्तत्पुरुषात्' (७।३।१०५) अट्समासान्तः । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । अष्टगवेन युक्तम् । अनेन आ । 'नाम्नो नोऽनहनः' (२।१।९१) नलोपः । [अष्टतुरगो रथः] अष्टौ तुरगा ॥ अस्य सः । [अष्टगवं ब्राह्मणधनम] अष्टानां गवां समाहारः । ‘गोस्तत्पुरुषात्' (७।३।१०५) अट्समासान्तः → अ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । सि-अम् । ब्राह्मणस्य धनम् । [अष्टगुश्चैत्रः] अष्टौ गावो यस्याऽसौ । 'गोश्चान्ते' (२।४।९६) ह्रस्वः ।।छ।। म मध्यमवृत्तौ - श० म० न्यासानुसन्धाने - अस्मिन् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy