SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पाद: ।। [पितुःष्वसा, पितुःस्वसा, पितृष्वसा] पितुः स्वसा । षष्ठ्ययत्नाच्छेषे' (३।१।७६) तत्पुरुषः समासः । 'अलुपि वा' (२।३।१९) विकल्पेन षत्वम् । [मातुःस्वसा, मातुःष्वसा, मातृष्वसा] मातुः स्वसा । तेनैव षत्वम् । [दुहितुःपतिः, दुहितृपतिः] दुहितुः पतिः । [स्वसुःपतिः, स्वसृपतिः] स्वसुः पतिः । [ननान्दुःपतिः, ननान्दृपतिः] ननान्दुः पतिः । [भर्तृस्वसा] भर्तुः स्वसा । होतृपतिः] होतुः पतिः ।।छ॥ आ 卐 द्वन्द्वे ।।३।२।३९।। [नेष्टोद्गातारौ] नेष्टा च उद्गाता च । [प्रशास्ताप्रतिहर्तारौ] प्रशास्ता च प्रतिहर्ता च । [मातादुहितरौ] माता च दुहिता च । [ननान्दायातरौ] ननान्दा च याता च । औ । अनेन सर्वत्र आकारः । [गुरुशिष्यो] गुरुश्च शिष्यश्च । औ । [पितृपितामहौ] पितृ । पितुः पिता = पितामहः । 'पित्रोर्डामहट्' (६।२।६३) डामहट्प्र० → आमह । 'डित्यन्त्यस्वरादे:' (२।१1११४) अन्त्यस्वरलोपः । पिता च पितामहश्च । प्रथमा औ । [कर्तृकारयितारौ] 'डुकुंग करणे' (८८८) कृ । कुर्वन्तं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ । 'नामिनोऽकलि-हलेः' (४१३५१) वृद्धिः आर् । कारयत इति । ‘णक-तृचौ' (५११४८) तृचप्र० → तृ । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट → इ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । कर्ता च कारयिता च । प्र० औ । 'तृ-स्वसृ-नप्तृ-नेष्ट्ट०' (१।४।३८) आर् । [चैत्रस्य स्वसृदुहितरौ] स्वसा च दुहिता च । प्र० औ । [चैत्रस्य पितृभ्रातरौ] पिता च भ्राता च । प्र० औ । [मातापितरौ माता च पिता च । [होतापोतारौ] होता च पोता च । प्र० औ । अनेन आ । 'तृ-स्वसृ-नप्त०' (१।४।३८) आर् | [स्वसादुहितरौ] स्वसा च दुहिता च । प्र० औ । तन्मते आ ।।छ।। पुत्रे ।।३।२।४०॥ [मातापुत्रौ] माता च पुत्रश्च । P.' वन्द्यते शिष्यैरिति द्वन्द्व उणादिनिपातनात् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy