SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य प्रथमः पादः ॥ २९९ "भू"द्वि: । हूस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४191४२) भु० → बु० । 'ग्रह-गुहश्च सनः' (४१४५९) इनिषेधः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [बोभवाञ्चकार] भू । भृशं पुनः पुनर्वा भवति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यङ्प० । 'सन्-यङश्च' (४।१।३) "भू''द्विः । 'हूस्वः' (४।११३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१४२) भु० → बु० । आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । परोक्षा णव् । 'धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम्' (३।४।४६) णव० → आम्० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'डुकंग करणे' (८८८) कृ । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) "कृ"द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'क-ङश्च-ञ्' (४।१।४६) क० → च० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धि: आर् ॥छ।। ज्या-व्ये-व्यधि-व्यचि-व्यथेरिः ।।४।१७१।। [ज्याव्येव्यधिव्यचिव्यथेरिः] ज्याश्च व्येश्च व्यधिश्च व्यचिश्च व्यथिश्च = ज्याव्येव्यधिव्यचिव्यथि, तस्य । इ प्रथमा सि । [जिज्यौ] 'ज्यांश् हानौ' (१५२४) ज्या । परोक्षा णव् । 'द्विर्धातुः परोक्षा-२०' (४११1१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक (४।१।४४) अनादिव्यञ्जनलोपः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । अनेन अस्य इ० । 'आतो णव औ' (४।२।१२०) णव्० → औ० । 'ऐदौत् सन्ध्यक्षरैः' (१४२११२) औ । _ [जिज्यिथ] ज्या । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'हूस्वः' (४।१।३९) ह्रस्वः । अनेन अ० → इ० । ‘सृजि-दृशि-स्कृ०' (४।४।७८) इट् । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । [संविव्याय] 'व्यंग संवरणे' (९९३) व्ये । य्वृद्धाधकमत्र इत्वम् । 'व्यस्थव् णवि' (४।२१३) न आत्वम् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'इस्वः' (४।१।३९) ह्रस्वः । अनेन इकारस्यापि इ० । 'नामिनोऽकलि-हलेः' (४१३५१) वृद्धिः ऐ । 'एदैतोऽयाय' (१।२।२३) आय् । [संविव्ययिथ] व्ये । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'हूस्वः' (४।१।३९) इ० । अनेन इकारस्यापि इ० । 'ऋ-वृ-व्ये-ऽद इट्' (४।४।८०) इट् । 'एदैतोऽयाय' (१।२।२३) अय् । [विव्याध] 'व्यधंच ताडने' (११५७) व्यध् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४११४४) अनादिव्यञ्जनलोपः । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । अनेन इ० । ॥ [विव्यधिथ] व्यध् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन इ० । इट् । [विव्याच] 'व्यचत् व्याजीकरणे' (१४३२) व्यच् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-३०' (४।११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन इ० ।। [विव्याच] 'व्यचत् व्याजीकरणे' (१४३२)व्यच् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । अनेन इ० । 'व्यचोऽनसि' (४1१1८२) इति अग्रेतनस्य न वृत् कुटादित्वात् ङिद्वदिति न वाच्यं गणकृतस्यानित्यत्वात् । 9 क्रियारत्नसमुच्चये -विव्यधिथ - विव्यद्ध । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy