SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य प्रथमः पादः ॥ २८५ [पिपावयिषति] 'पूग्श् पवने' (१५१८) पू । पुनन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । ‘ओदौतोऽवाव्' (१।२।२४) आव् । पावयितुमिच्छति । 'तुमर्हादिच्छायां सन्न०' (३।४।२१) सन्प० । 'सन्-यडश्च' (४१३) “पू"द्विः । 'हूस्वः' (४।१।३९) ह्रस्वः । अनेन उ० → इ० । इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [बिभावयिषति] 'भू सत्तायाम्' (१) भू । भवन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । भावयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) "भू"द्विः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । अनेन उ० → इ० । इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'नाम्यन्तस्था०' (२।३।१५) पत्वम् । मिमावयिषति] 'मुङ बन्धने' (६०१) । मवमानं प्रयुक्ते । 'प्रयोक्तव्यापारे णिग' (३।४।२०) णिगप्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । मावयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । 'सन्-यडश्च' (४।१३) द्वि: । 'हूस्वः ' (४।१।३९) ह्रस्वः । अनेन इ० । [पापचिषते] (४।१।५९) सूत्रवत् । [अवतुतावयिषति] अव 'तुंक् वृत्ति-हिंसा-पूरणेषु' (१०७९) तु । अवतुवन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । अवतावयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । “तु"द्विः । इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [जुहावयिषति ॥ हेंग स्पर्धा-शब्दयोः' (९९४) हे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । हयन्तं प्रयोक्तुमिच्छति । णिग्-सन्प्र० । ‘णौ ङ-सनि' (४११८८) य्वृत् उ० । 'नामिनोऽकलि-हलेः' (४१३५१) वृ० औ । ‘ओदौतोऽवाव्' (१।२।२४) आव् । 'सन् यडश्च' (४१३) “हु"द्वि: । 'ग-होर्जः' (४।१।४०) ह० → ज० । इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [बुभूषति] 'भू सत्तायाम्' (१) भू । भवितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । 'हूस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वो' (४।११४२) भ० → ब० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [जुज्यावयिषति] च्युङ् (५९४) - 'ज्युङ् गतौ' (५९५) ज्यु । ज्यवमानं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । ज्यावयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'णौ यत्कृतं कार्यं तत्सर्वं स्थानिवद्भवति' (वक्षस्कार (२)/ सूत्र ३५) इति न्यायात् 'सन्-यडश्च' (४।१३) "ज्यु"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) यलोपः । इट् । 'नामिनो गुणोऽक्डिति' (४३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [लुलाव] 'लूग्श् छेदने' (१५१९) लू । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।११) "लू"द्विः । हूस्वः' (४।१३९) ह्रस्वः । 'नामिनोऽकलि हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । P. ' 'हुंक् दाना-ऽदनयोः' (११३०) हु । जुहन्तं प्रयुक्ते । णिग्प० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । आव । हावयितुमिच्छति । सन्प्र० । 'सन्-यडश्च' (४।१।३) “हु"द्विः । 'ग-होर्जः' (४।१।४०) ह० → ज० । इट् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy