SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १४ [ रात्रिकाले ] रात्रौ च तस्मिन् काले च ।।छ।। शय-वासि- वासेष्वकालात् ।।३।२।२५।। [शयवासिवासेषु ] शयश्च वासी च वासश्च = शयवासिवासाः, तेषु । [अकालात्] न कालोऽकालस्तस्मात् । [बिलेशयः, बिलशयः] 'शीक् स्वप्ने' (११०५) शी । विले शेते । ' आधारात्' (५।१।१३७) अप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [खेशयः, खशयः ] खे- आकाशे शेते । ' आधारात्' (५।१।१३७) अप्र० । शेषं पूर्ववत् । [वनेवासी, वनवासी] वने वसतीत्येवंशीलः । [अन्तेवासी, अन्तवासी] अन्ते वसतीत्येवंशीलः । 'अजातेः शीले' (५।१।१५४) णिन्प्र० इन् । ‘ञ्णिति’ (४।३।५०) उपान्त्यवृद्धिः । प्र० सि । इन्- हन्- पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । 'दीर्घयाव् ० ' (१।४।४५) सिलोपः । 'नाम्नो नोऽनन: ' (२।१।९१) नलोपः । [ग्रामेवासः, ग्रामवासः ] 'वसं निवासे' (९९९) वस् । वसनं = वासः । ' भावा- ऽकर्त्री : ' (५।३।१८) घञ्प्र० अ । 'ञ्णिति' (४।३।५० ) उपान्त्यवृद्धिः । ग्रामे वासः । [ मनसिशयः ] मनसि शेते । [कुशेशयम् ] कुशे शेते । ' आधारात्' (५।१।१३७) अप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए० । 'एदैतोऽयाय् ' (१।२।२३) अय् । [हृच्छयः ] हृदि शेते । [चित्तशयः ] चित्ते शेते । [पूर्वाह्णशयः ] पूर्वाह्णे शेते । [ अपराह्णशयः ] अपराह्णे शेते । [ भूमिशयः ] भूमौ शेते । [गुहाशयः] गुहायां शेते । सर्वत्र 'आधारात्' (५।१।१३७) अप्र० । 'नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । प्रथमा सि । 'ऐकार्थ्य' ( ३।२।८) विभक्तिलोपः । । छ || वर्ष-क्षर- वरा-Sप्सरः- शरोरो - मनसो जे || ३।२।२६ ॥ [वर्षक्षरवराऽप्सरः शरोरोमनसः ] वर्षं च क्षरं च वरश्च अप्सर (रा)श्च (आपश्च सरश्च ) शरश्च उरश्च मनश्च = वर्षक्षरवराऽप्सरः शरोरोमनः तस्मात् । P वर्षश्च क्षरश्च । Jain Education International [ वर्षेजः, वर्षजः ] वर्ष 'जनैचि प्रादुर्भावे' (१२६५) जन् । वर्षे जातः । [क्षरेजः, क्षरजः] क्षरे जातः । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy