SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [मुकुटेकार्षापणः] मुकुटे (२) कार्षापणो दातव्यः ।। [स्तूपेशाणः] स्तूपे (२) शाणौ(णो) दातव्यः । 'नाम्नि' (३।१।९४) इति तत्पुरुपः समासः । [हलेद्विपदिका] हले(२) द्वौ पादौ ददाति । 'संख्याऽऽदे: पादादिभ्यो दान-दण्डे चाऽकल लुक च' (७।२।१५२) अकल्प० → अक-प्रकृतेरन्तस्य लुक् च । 'य-स्वरे पादः पदणि-क्य-घुटि' (२।१।१०२) पाद्० → प० । 'आत्' (२।४।१८) आप्प० → आ० । 'अस्याऽयत्-तत्-क्षिपकादीनाम्' (२।४।१११) इ । [हलेत्रिपदिका हले(२) त्रीन् पादान् ददाति । 'संख्याऽऽदे: पादा०' (७।२।१५२) अकल्प० → अक-प्रकृतेरन्तस्य लुक् च । 'य-स्वरे पादः पदणि-क्य-घुटि' (२।१।१०२) पाद् → पद्० । 'आत्' (२।४।१८) आप्प० → आ । 'अस्याऽयत्-तत्०' (२।४।१११) इ । [दृषदिमाषक:] दृषदि माषकः । [समिधिमाषक:] समिधि माषकः । [यूथवृषः] यूथे (२) देयो वृषः । [अविकटोरणः] अवि । अवीनां संघातोऽविकट(टः) । 'अवेः संघात-विस्तारे कट-पटम्' (७।१।१३२) कटप्र० । अविकटे (२) ऊरणो दातव्यः । 'ऐकार्थ्य' (३२८) वाक्यमध्ये विभक्तिलोपः । [नधी(द्धी)दोहः] ‘णहींच् बन्धने' (१२८५) णह् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नह् । नातीति । 'नी-दाव्शसू-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-पा-नहस्त्रट' (५।२।८८) त्रटप्र० →त्र । 'नहाहोर्ध-तौ' (२११८५) ह० → ध० । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) त्र० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० । 'अणजेयेकण्-नञ्-स्नञ्टिताम्' (२।४।२०) डी । 'अस्य ड्यां लुक' (२।४।८६) अलोपः । नध्यां(नद्धयां) नध्यां(नद्धयां) दोहो दातव्यः = नधी(धी)दोहः ।।छ।। __ तत्पुरुषे कृति ।।३।२।२०।। [तत्पुरुषे] स(:) चासौ पुरुषश्च = तत्पुरुषस्तस्मिन् । स्तम्बेरमः] स्तम्ब सप्तमी ङि । 'रमिं क्रीडायाम' (९८९) रम् । स्तम्बे रमते । शोकापनुद-तुन्दपरिमृज-स्तम्वेरमकर्णेजपं प्रिया-ऽलस-हस्ति-सूचके' (५।११४३) कप्र० निपात्यते । 'ङस्युक्तं कृता' (३।१।४९) तत्पुरुषः समासः । [कर्णेजपः] कर्ण सप्तमी ङि । 'जप मानसे च' (३३८) जप । कर्णे जपते(ति) । 'शोकापनुद तुन्दपरिमृज-स्तम्वेरमकर्णेजपं प्रियाऽलस-हस्ति-सूचके' (५।१।१४३) कप्र० निपात्यते । [प्रवाहेमूत्रितम् प्र 'वहीं प्रापणे' (९९६) वह् । प्रवहन्त्यस्मिन्निति । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । सप्तमी ङि । 'मूत्रण सूत्रणे(प्रस्रवणे)' (१९००) मूत्र । 'चुरादिभ्यो णिच्' (३।४।१७) णिचप० → इ । मूत्र्यते स्म । 'क्त क्तवतू' (५।१।१७४) क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् → इ । 'णेरनिटि' (४।३।८३) णिच्लोपः । प्रवाहे सू(मू)त्रितम् । 'क्तन' (३।१।९२) इति तत्पुरुषः समासः । [उदकेविशीर्णम] वि कृ(१५२९)-मृ (१५३०) - 'शृश् हिंसायाम्' (१५३१) शृ । विशीर्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'ऋतां क्डितीर्' (४।४।११६) इर् । ‘रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) त० → न० । 'रवर्णान्नो ण०' (२।३।६३) न० → ण० । 'भ्वादे मिनो०' (२।१।६३) दीर्घः । 'दिर्ह-स्वरस्याऽनु नवा' (१।३।३१) Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy