SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २२३ NNNNNNNNNNNNN अथ तृतीयाध्यायस्य चतुर्थः पादः ।। (१।४।३५) र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । [क्रीणाति] 'डुक्रींग्श् द्रव्यविनिमये' (१५०८) क्री । वर्त्तः तिव् । अनेन श्नाप्र० → ना । 'र-पृवर्णान्नो ण०' (२।३।६३) न० → ण । [प्रीणाति] 'प्रींग्श् तृप्ति-कान्त्योः ' (१५१०) प्री । वर्त्तः तिव् । अनेन श्नाप्र० → ना । ‘र-पृवर्णान्नो ण०' (२।३।६३) न० → ण० । इति शितः ज्यादयः ।।छ।। व्यञ्जनाच्छ्नाहेरानः ।।३।४।८०॥ [व्यञ्जनात्] व्यञ्जन पञ्चमी डसि । [श्नाहे:] श्ना युक्ता हि: = श्नाहिस्तस्य । [आनः] आन प्रथमा सि ।। [पुषाण] 'पुष्श् पुष्टौ' (१५६४) पुष् । पञ्चमी हि । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । अनेन श्नाहि → आन आदेशः । [मुषाण] ‘मुषश् स्तेये' (१५६३) मुष् । पञ्चमी हि । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । अनेन श्नाहि → आन आदेशः । [उत्तभान] उत्-स्तम्भू इति सौत्रो धातुः, स्तम्भ । पञ्चमी हि । 'क्यादेः' (३।४।७९) श्नाप्र० । अनेन आन । 'उदः स्था-स्तम्भः सः' (१।३।४४) सलोपः । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । [विष्कभाण] स्कम्भू इति सौत्रो धातुः, विपूर्व० । पञ्चमी हि । 'क्यादेः' (३।४७९) श्नाप्र० । अनेन आन । 'स्कभ्नः' (२।३५५) इति षत्वम् । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । [लुनीहि 'लूगश् छेदने'(१५१९) लू । पञ्चमी हि । 'क्यादेः' (३१४७९) श्नाप्र० → ना । 'एषामी व्यञ्जनेऽदः' (४।२।९७) आ० → ई० । 'प्वादेहूस्वः' (४।२।१०५) ह्रस्वः । [अश्नाति] 'अशश् भोजने' (१५५८) अश् । वर्त० तिव् । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । [उत्तभ्नुहि उत्-स्तम्भू इति सौत्रो धातुः । पञ्चमी हि । 'स्तम्भू-स्तुम्भू-स्कम्भू-स्कुम्भू-स्कोः श्ना च' (३।४।७८) श्नुप्र० → नु । 'उदः स्था-स्तम्भः सः' (१३।४४) सलोपः । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । [विस्कम्नुहि] स्कम्भू इति सौत्रो धातुः, स्कम्भ, विपूर्व० । पञ्चमी हि । 'स्तम्भू-स्तुम्भू-स्कम्भू०' (३।४।७८) श्नुप्र० → नु । स्कम्भू इत्यत्र श्नानिर्देशात् श्नु आगते सस्य षत्वं न भवति ।।छ।। तुदादेः शः ।।३।४।८१।। [तुदादेः] तुद् आदिर्यस्याऽसौ तुदादिस्तस्मात् । [शः] श प्रथमा सि । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy