SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य चतुर्थः पादः ॥ १९३ [यवयति] युवन् । युवानमाचष्टे । अनेन णिच्प्र० । 'स्थूल दूर - युव- ह्रस्व- क्षिप्र०' (७।४।४२) “यु आदेशो गुणश्च । 'ओदौतोऽवाव्' (१।२।२४) अव् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्डिति' (४३19) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [क्षेपयति] क्षिप्र । क्षिप्रमाचष्टे । अनेन णिच्प्र० । 'स्थूल- दूर- युव-ह्रस्व- क्षिप्र० (७।४।४२) क्षिपादेशो गुणश्च । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [ क्षोदयति ] क्षुद्र । क्षुद्रमाचष्टे । अनेन णिच्प्र० । 'स्थूल दूर युव- हस्व क्षिप्र क्षुद्र०' (७।४।४२) क्षुदादेशो गुणश्च । वर्त्त तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति' ( ४ | ३ | १) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [प्रापयति ] प्रिय । प्रियमाचष्टे करोति वा । अनेन णिच्प्र० इ । 'प्रिय स्थिर - स्फिरोरु - गुरु - बहुल-तृप्र-दीर्घ वृद्धवृन्दारकस्येमनि च प्रा-स्था-स्फा- वर गर- बंह- त्रप- द्राघ - वर्ष-वृन्दम्' (७।४।३८) प्रादेश: । 'अर्त्तिरी - व्ली - ह्री- क्नूयि क्ष्माय्यातां पुः' ( ४।२।२१ ) पोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्द्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [ स्थापयति] स्थिरमाचष्टे करोति वा । अनेन णिच्प्र० इ । 'प्रिय स्थिर - स्फिरोरु-गुरु- बहुल- तृप्र-दीर्घ वृद्ध० ' (७।४।३८) स्थादेशः । 'अर्त्तिरी- व्ली - ही क्नूयि० (४।२।२१ ) पोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [ स्फापयति ] स्फिरमाचष्टे करोति वा । अनेन णिच्प्र० इ । 'प्रिय स्थिर - स्फिरोरु-गुरु- बहुल-तृप्र-दीर्घ वृद्ध० ' (७।४।३८) स्फादेश: । 'अर्त्ति-री- व्ली- ह्री- क्नूयि० ' ( ४।२।२१) पोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय् (१।२।२३) अय् । [पुच्छ्यति] पुच्छ । पुच्छ्माचष्टे । [वृक्षयति ] वृक्षमाचष्टे रोपयति वा । [कृतयति ] कृतं गृह्णाति । [ वर्णयति ] वर्णं गृह्णाति । [त्वचयति ] त्वच । त्वचं गृह्णाति । [रूपयति ] रूपं दर्शयति । [ निरूपयति ] रूपं निध्यापयति । Jain Education Intemational [अनुलोमयति] अनु-लोमन् । लोमान्यनुमाष्टि । [वितूस्तयति] उत्-तूस्त । तूस्तानि उद्वहन्ति । अनेन सर्वत्र णिच्प्र० इ । केशान् विजटीकरोतीत्यर्थः । [ संवस्त्रयति] वस्त्र - सम्पूर्व० । वस्त्रं वस्त्रेण वा समाच्छादयति । [ परिवस्त्रयति] वस्त्र-परिपूर्व० । वस्त्रं परिदधाति । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy