SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४० सं-नि-वेः ||३ | ३१५७॥ = [संनिवे:] सम् च निश्च विश्व संनिविस्तस्मात् । ह्वः स्पर्धे (३|३|५६) सं-नि-वे: इत्येकयोगाकरणं स्पर्ध इति निवृत्त्यर्थः ॥ छ || उपात् || ३ | ३ |५८ ॥ = [ उपात्] उप पञ्चमी ङसि । [उपह्वयते] ह्वे, उपपूर्व० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'एदैतोऽयाय् ' (१।२।२३) अय् । छ । । यमः स्वीकारे || ३ | ३ |५९ ॥ [ यमः ] यम् पञ्चमी इसि । [स्वीकारे] अस्वस्य स्वस्य करणं = स्वीकारः । ' कृ-भ्वस्तिभ्यां कर्मकर्तृभ्यां ० ' ( ७।२।१२६) च्चिप्र० । 'ईश्च्वाववर्णस्याSनव्ययस्य' (४।३1999 ) ई । स्वीक्रियते = स्वीकारः । भावा- Sकर्त्री : ' ( ५।३।१८) घञ्प्र० अ । 'नामिनोऽकलिहले ः ' ( ४ | ३ |५१) वृद्धि: आर्, तस्मिन् स्वीकारे । Jain Education International श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [कन्यामुपयच्छते] उप 'यमूं उपरमे' (३८६) यम् । कर्न० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'गमिषद्यमश्छः ' (४।२।१०६) म० छ० । 'स्वरेभ्यः' (१।३।३०) स्य द्वित्वम् । 'अघोषे प्रथमोऽशिट : ' (१|३|५०) छ० वरयतीत्यर्थः । च०, [ उपायंस्त महास्त्राणि] उप-यम् । अद्यतनी त । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'शिङ्- हेऽनुस्वारः' (१।३।४०) अनुस्वारः । ‘अड् धातोरादि०' (४।४।२९) अट् । अनुगृह्णातीत्यर्थः । महत्- अस्त्र । महान्ति च तानि अस्त्राणि च । 'जातीयैकार्थेऽच्चे:' ( ३।२।७०) डा० आ । 'डित्यन्त्यस्वरादेः ' (२।१।११४) अतूलोपः । द्वितीया शस् । 'नपुंसकस्य शि: ' (१।४।५५ ) शि० इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । ' रपृवर्णान्नो ण० ' (२।३।६३) न० ० ॥ छ ॥ देवाऽर्चा- मैत्री-सङ्गम-पथिकर्तृक-मन्त्रकरणे स्थः ||३ | ३ |६०|| [देवाऽर्चामैत्रीसङ्गमपथिकर्तृकमन्त्रकरणे] देवानामर्चा देवार्चा । मित्रस्य इमा मैत्री | 'तस्येदम्' (६।३।१६०) अण्प्र० अ । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धि : ऐ । 'अवर्णेवर्णस्य' ( ७१४।६८) अलोपः । 'अणञेयेकण् नञ्-स्रञ्टिताम्' (२।४।२०) डी । सङ्गमनं = सङ्गमः । पन्थाः कर्त्ता यस्याऽसौ पथिकर्तृकः । मन्त्रः करणं यस्याऽसौ मन्त्रकरणः | देवार्चा च मैत्री च सङ्गमश्च पथिकर्तृकश्च मन्त्रकरणश्च तत्, तस्मिन् । [स्थः] स्था पञ्चमी इसि । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलोपः । [जिनेन्द्रमुपतिष्ठते] उप 'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था० । 'निमित्ताभावे नैमित्तिकस्याऽप्यभावः' (न्या० स० वक्ष० ( १ ) / सूत्र (२९)) स्था । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'श्रीतिं कृयु-धि- पा०' (४।२।१०८) "तिष्ठ" आदेशः । मैवं मंस्थाः सचित्तोऽयमेषोऽपि हि यथा वयम् । एतदप्यस्य कापेयं, यदर्कमुपतिष्ठति ||१|| = For Private & Personal Use Only = www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy