SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । आन । कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) [उत्पुच्छ्यमानः ] उत्पुच्छ्यते । 'शत्रानशा०' (५।२।२० ) आनश्प्र० शव् । 'अतो म आने' ( ४|४|११४ ) मोऽन्तः । 'नामिनो गुणोऽक्ङिति' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ॥छ ।। १२४ क्रियाव्यतिहारेऽगति - हिंसा - शब्दार्थ- हसो ह- वहश्चाऽनन्योऽन्यार्थे || ३ | ३ |२३|| [क्रियाव्यतिहारे] क्रियाया व्यतिहारः = क्रियाव्यतिहारस्तस्मिन् । [अगतिहिंसाशब्दार्थहसः] गतिश्च हिंसा च शब्दश्च = गतिहिंसाशब्दाः, गतिहिंसाशब्दा अर्था येषां ते = गतिहिंसाशब्दार्थाः गतिहिंसाशब्दार्थाश्च हस् च = गतिहिंसाशब्दार्थहस्, पश्चान्नञा समासः, ततः पञ्चमी । [ह्रवहः ] हृश्च वह् च = ह्रवह्, तस्मात् । [ अनन्योऽन्यार्थे ] अन्योऽन्यस्य अर्थोऽन्योऽन्यार्थः, न अन्योऽन्यार्थोऽनन्योऽन्यार्थस्तस्मिन् । हरणशब्देन करणमुच्यते । [व्यतिलुनते] वि-अति ‘लूग्श् छेदने' (१५१९) लू । वर्त्त० अन्ते । 'क्यादेः' (३।४।७९) श्नाप्र० ना । 'श्नश्चाऽऽतः' (४।२।९६) आलोपः । 'अनतोऽन्तोदात्मने' (४।२।११४ ) इति नलोपः । 'प्वादेर्हस्वः' (४।२।१०५) ह्रस्वः । [ व्यतिपुनते] वि-अति पूग्श् पवने' ( १५१८) पू । वर्त्त० अन्ते । 'क्र्यादेः' (३।४।७९) श्नाप्र० ना । 'श्नश्चाऽऽतः ' ( ४।२।९६ ) आलोपः । 'अनतोऽन्तोऽदात्मने' (४।२ । ११४ ) नलोपः । ' प्वादेर्ह्रस्वः' (४।२।१०५ ) ह्रस्वः । [ व्यतिहरते भारम् ] वि-अति 'हंग् हरणे' (८८५) हृ । वर्त्त० अन्ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । [व्यतिवहन्ते भारम् ] वि-अति 'वहीं प्रापणे' (९९६) वह् । वर्त्त० अन्ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । लुगस्या०' (२।१।११३) अलोपः । [संप्रहरन्ते राजानः] सम्-प्र 'हंग् हरणे' (८८५) हृ । वर्त्त० अन्ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'नामिनो०’ ( ४।३।१ ) गु० अर् । [ संविवहन्ते वर्ग ] सम्-वि 'वहीं प्रापणे' (९९६) वह् । वर्त्त० अन्ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । ‘लुगस्यादेत्यपदे’ (२।१।११३) अलोपः । [लुनन्ति ] 'लुग्श् छेदने' (१५१९) लू । वर्त्त० अन्ति । 'क्र्यादेः' (३।४।७९) श्नाप्र० ना। 'श्नश्चाऽऽतः ' ( ४१२ ।९६ ) आलोपः । 'प्वादेर्ह्रस्वः' (४।२।१०५ ) ह्रस्वः । [पुनन्ति ] 'पूग्श् पवने' ( १५१८) पू । वर्त्त० अन्ति । 'क्यादेः' (३।४।७९) श्नाप्र० ना । 'श्नश्चाऽऽतः ' ( ४ । २ । ९६ ) आलोपः । 'प्वादेर्ह्रस्वः' (४।२।१०५) ह्रस्वः । [ व्यतिगच्छन्ति ] वि-अति 'गम्लं गतौ' (३९६) गम् । वर्त्त० अन्ति । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'ममिषद्यमश्छः' (४।२।१०६) म० छ० । 'स्वरेभ्यः ' (१ | ३ | ३० ) द्वित्वम् । 'अघोषे प्रथमोऽशिट: ' (१३३।५०) छ० → च० । लुगस्यादेत्यपदे' (२।१।११३) अलोपः । P. इदमुदाहरणं बृहद्वृत्तौ नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy