SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ॥ त । 'ईर्व्यञ्जनेऽयपि' (४।३।९७) आ० → ई० । [इदमहे: सृप्तम] 'सृप्लं गतौ' (३४१) सृप । सृप्यते स्माऽस्मिन्निति । 'अद्यर्थाच्चा०' (५।१।१२) क्तप्र० → त । [इदमेषामासितम] 'आसिक उपवेशने' (१११९) आस् । आस्यते स्माऽस्मिन्निति । 'अद्यर्थाच्चाऽऽधारे' (५।१।१२) क्तप्र० → त । 'स्ताद्यशितोऽत्रो०' (४।४।३२) इट् ।।छ।। वा क्लीवे ।।२।२।९२।। [वा क्लीबे] वा प्रथमा सि । क्लीब सप्तमी ङि । [छात्रस्य हसितम्, छात्रेण हसितम्] 'हसे हसने' (५४५) हस् । हसनं = हसितम् । ‘क्लीवे क्तः' (५।३।१२३) क्तप्र० →त । [मयूरस्य नृत्तम्, मयूरेण नृत्तम्] 'नृतैच् नर्तने' (११५२) नृत् । नर्तनं = नृत्तम् । ‘क्लीवे क्तः' (५।३।१२३) क्तप्र० [कोकिलस्य व्याहृतम, कोकिलेन व्याहृतम्] 'हंग् हरणे' (८८५ ) हु, वि-आयूर्व० । विशेषेणाऽऽहरणं = व्याहृतम् । 'क्लीबे क्तः' (५।३।१२३) क्तप० →त । [इहाहेः सृप्तम्, इहाऽहिना सृप्तम्] 'सृप्नुं गतौ' (३४१) सृप् । सर्पणं = सृप्तम् । ‘क्लीवे क्तः' (५।३।१२३) क्तप्र० → त । [चैत्रेण कृतम्] 'डुबंग करणे' (८८८) कृ । क्रियते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त ।।छ।। अकमेरुकस्य ।।२।२।९३।। [अकमेरुकस्य न कमि = अकमि । 'नञत्' (३।२।१२५) न० → अ०, तस्मात् । उक षष्ठी डस् । [आगामुकं वाराणसी रक्ष आहुः] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीमृ (३९५) - 'गम्लूं गतौ' (३९६) गम, आडपूर्व० । आगच्छतीत्येवंशीलम् । 'श-कम-गम-हन-वृष-भू-स्थ उकण' (५।२।४०) उकणप्र० → उक । 'णिति' (४।३५०) उपान्त्यवृद्धिः । [भोगानभिलाषुकः] 'लषी कान्तौ' (९२७) लष, अभिपूर्व० । अभिलषतीत्येवंशीलः । 'लष-पत-पदः' (५।२।४१) उकणप्र० । 'णिति' (४।३५०) उपान्त्यवृद्धिः । प्रथमा सि । [दास्याः कामुकः] 'कमूङ् कान्तौ' (७८९) कम् । 'कमेर्णि' (३।४।२) णिम० → इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । कामयत इत्येवंशीलः । 'शू-कम-गम-हन-वृष-भू-स्थ उकण्' (५।२।४७) उकण्प्र० → उक । ‘णेरनिटि' (४।३।८३) णिङ्लोपः ॥छ।। एष्यदृणेनः ।।२।२।९४।। [एष्यदृणेनः] एष्यच्च ऋणं च = एष्यदृणं(णे), तयोरिन् = एष्यदृणेन, तस्य = एष्यदृणेनः, षष्ठी डस् । [ग्रामं गमी] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - ‘गम्लुं गतौ' (३९६) गम् । गमिष्यतीति । 'गमेरिन्' (उणा० ९१९) इन्प्र० ।। [ग्राममागामी]आ-गम् । आगमिष्यतीति । 'आङश्च णित्' (उणा० ९२०) णिद् इन्प्र० । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy