SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ॥ क्लीबत्वम् । [दक्षिणाहि ग्रामात् ] दक्षिणा । दक्षिणस्यां दिशि वसति । 'आऽऽही दूरे' (७।२।१२०) आहिप्र० । 'अवर्णेवर्णस्य' ( ७।४।६८) आलोपः । प्रथमा सि । अव्यउ । [ उत्तराहि ग्रामात् ] उत्तरस्यां दिशि वसति उत्तराहि । [दक्षिणा ग्रामात् ] दक्षिणस्यां दिशि वसति दक्षिणा । [ उत्तरा ग्रामात्] उत्तरस्यां दिशि वसति = उत्तरा । = [ न्यग् मैत्रस्याऽवस्थितः ] न्यग् मैत्रस्येत्यप्रधानो यथा भवति एवं स्थितः । [ बहिष्पुरात् ] बहिस् प्रथमा सि । 'अव्ययस्य' ( ३।२ । ७) सिलोपः । 'निर्दुर्बहिराविष्प्रादुश्चतुराम्' (२।३ ।९) षत्वम् । [आराद् ग्रामात् क्षेत्रम् ] आरात् प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । [ इतरश्चैत्रात्] इतर । प्रथमा सि ।।छ । = ऋणाद्धेतोः ||२|२|७६ ॥ [ ऋणाद्धेतोः ] ऋण पञ्चमी इसि । हेतु पञ्चमी इसि । 'ततो हश्चतुर्थः ' (१।३।३) ह० ध० । [शताद् बद्धः ] 'बन्धंश् बन्धने' (१५५२ ) बन्धु । बध्यते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० त । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । 'अधश्चतुर्थात् ' ० (२1१1७९) त० ध० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९) ध० → द० । [ सहस्राद् बद्धः ] बद्धः पूर्ववत् ॥ गुणादस्त्रियां नवा ||२२|७७ ।। -- [ गुणादस्त्रियां नवा ] गुण पञ्चमी इसि । 'डेडस्योर्याऽऽतौ' (१।४।६) आत् । न स्त्री अस्त्री | 'नज' ( ३।२।१२५) न० → अ० तस्याम् । 'स्त्रीदूतः ' (१।४।२९) दाम् आम् । स्त्रियाः ' (२।१।५४ ) इय् । नवा प्रथमा सि । 'अव्ययस्य' ( ३।२१७) सिलोपः । [जाड्याद् बद्धः, जाड्येन बद्धः ] जड । जडस्य भावः = जाड्यम् । 'वर्ण- दृढादिभ्यष्ट्यण् च वा' (७।१।५९) ट्यण्प्र० → य । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः । 'अवर्णवर्णस्य' (७|४|६८) अलोपः । [आरादर्थेः] आरादर्थो येषां ते [ पारिख्यात्याद् मुक्तः, पारिख्यात्येन मुक्तः ] 'ख्यांक् प्रकथने' (१०७१) ख्या, परिपूर्व० । परिख्यानं परिख्यातिः । 'स्त्रियां क्तिः ' ( ५।३।९१) क्तिप्र० ति । परिख्यातेर्भावः = पारिख्यात्यम् । 'पतिराजान्तगुणाङ्ग-राजादिभ्यः कर्मणि च ' (७।१।६० ) ट्यण्प्र०य । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धि: । 'अवर्णवर्णस्य' (७।४।६८) इलोपः । 5 लघुन्यासे परिख्यातस्य भावः । Jain Education International ३९ [ज्ञानाद् मुक्तः, ज्ञानेन मुक्तः ] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । ज्ञायते परिच्छिद्यते शब्दादिभावा अनेनेति ज्ञानम् । 'अनट्' (५|३|१२४) अनट्प्र० अन् तस्मात् तेन वा ॥ छ ॥ आरादर्थेः ||२|२|७८ ॥ आरादर्थास्तैः । For Private 1 Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy