________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । कष्यशि-पचि-मुचि-यजि-वृ-तृभ्यः सः' (उणा० ५६४) सप्र० । 'अघोषे प्रथमोऽशिटः' (११३५०) द० → त० । द्वयोर्मध्ये प्रकृष्टौ(टो) वत्सो = वत्सतरः । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प० → तर । वत्सतरस्य ऋणं = वत्सतरार्णम् ।
सर्वत्र प्रथमैक० सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । अनेन ऋता सह आर् । 'दिर्ह-स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् ।। छ ।।
ऋते तृतीयासमासे ।।१२।८।। [ऋते] ऋत सप्तमी ङि । 'अवर्णस्ये०' (१।२६) ए । [तृतीयासमासे] तृतीयायाः समासः = तृतीयासमासस्तस्मिन् । [शीतातः] शीतेन ऋतः = शीतातः । प्रथमैक० सि । अनेन आर् । [सुखेतः] सुखेन इतः । [दुःखेतः] दुःखेन इतः । [परमर्त्तः] परमश्चासावृतश्च = परमर्त्तः । ‘अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) अर् । प्रथमैक० सि ।
[दःखेनतः दुःख । तृती०टा । 'टा-डसोरिन-स्यौ' (१।४।५) इन । 'अवर्णस्येवर्णादिनैदोदरल' (१।२।६) ए० । ऋत । प्रथमैक० सि । 'अवर्णस्ये०' (१।२।६) अर् । 'दिर्ह-स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् ।
("क्षुधार्तः सन् शालीन् कवलयति मांस्पाकवलितान्' ?)
कवलयति] कवलात् (लं) करोतीति कवलयति । 'णिज्वहुलं नाम्नः कृगादिषु' (३।४।४२) णिचप्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलोपः । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) ए। ‘एदैतोऽयाय्' (१।२।२३) अय् ।
मांस्पाकवलितान] मांस अग्रे 'डुपचीष पाके' (८९२) पच् । मांसस्य पचनं = मांस्पाकः । “भावाऽकोंः ' (५।३।१८) घञ्प्र० → अ । “णिति' (४।३।५०) उपान्त्यवृद्धिः । 'च-जः क-गम्' (२।११८६) च० → क० । 'मांसस्याऽनङ्-घञि पचि नवा' (३।२।१४१) मांससंबंधि अलोपः । मांस्पाकेन वलिता = मांस्पाकवलितास्तान = मांस्पाकवलितान् ।। छ ।।
ऋत्यारुपसर्गस्य ।।१।२।९।। [ऋति] ऋत् सप्तम्येक० ङि ।
[आर] आर् प्रथमैक० सि । दीर्घड्याब्-व्यञ्जनात् सेः' (१।४।४५) सिलोपः ।
. [उपसर्गस्य] 'सृजंत् विसर्गे' (१३४९) सृज, उपपूर्व० । उपन्समीपे भूत्वा धातोर) सृजतीत्युपसर्गः । 'पुन्नाम्नि घः' (५।३।१३०) घप्र० । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।१।१११) ज० → ग० । ‘लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'दिर्ह-स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् । तस्य = उपसर्गस्य, षष्ठी डस् । 'टा-डसोरिन-स्यौ' (१।४।५) स्य ।
[प्रार्छति, पराछति] 'ऋछत् इन्द्रियप्रलय-मूर्तिभावयोः' (१३४२) ऋच्छ्, प्रपूर्व०-परापूर्व० । 'धातोः पूजार्थस्वति०' (३।१।१) उपसर्गसंज्ञा । वर्त्तः तिव् । 'तुदादेः शः' (३।४।८१) शप्र० → अ । अनेन आर् । 'स्वरेभ्यः' (१।३।३०) द्वित्वम् । 'अघोषे प्रथमोऽशिटः' (१३५०) छस्य च० ।
[प्राोति, परार्नोति] प्र अग्रे, परा अग्रे 'ऋधूट वृद्धौ' (१३०६) ऋध् । वर्त्तः तिव् । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० → नु । 'उ-श्नोः ' (४।३।२) गु० नो । अनेन आर् ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal use only
www.jainelibrary.org
www.jainelibrar