SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [तृष्णक् ] 'ञितृषच् पिपासायाम्' (१२१२) तृष् । तृष्यतीति । 'तृषि - धृषि-स्वपो नजिङ्' (५१२१८०) नजिड्प्र० → नज् । अनेन ज०ग० । 'विरामे वा' (१।३।५१) ग० क० । २०० [ धृष्णक्] 'ञिधृषाट् प्रागल्भ्ये' (१३१२) धृष् । धृष्णोतीति । तृषि - धृषि - स्वपो नजिङ्' (५।२।८०) नजिड्प्र० → नज् । अनेन ज०ग० । 'विरामे वा' (१।३।५१) ग० क० । [वाचौ] वक्तः इति वाचौ । दिद्युद् ददृद्- जगज्जुहू वाक्०' (५१२१८३) क्विप्प्र० - वाच् । [ वाचः ] वचन्तीति वाचः । ' दिद्युद् ददृद्- जगज्जुहू-वाक्०' (५।२।८३) क्विप्प्र० - वाच् । [तच्चञ्चुः] तद् । तेन वित्तः इति तच्चशुः । ' तेन वित्ते चच-चणी' (७।१।१७५) चप्र० । [तच्चणः] तद् । तेन वित्तः इति तच्चणः । 'तेन वित्ते चशु-चणौ' (७।१।१७५) चणप्र० । [अज्झलौ ] अच् च हल् च = अज्झलौ । प्रथमा औ । 'घुटस्तृतीयः' (२।१।७६) च० ज० । 'ततो हश्चतुर्थः ' (१।३।३) ह० झ० ॥ छ ॥ यज-सृज - मृज-राज-भ्राज-भ्रस्ज-वश्च परिव्राजः शः षः || २ |१ |८७ ।। [यजसृजमृजराजभ्राजभ्रस्जवश्चपरिवाजः ] यजश्च सृजश्च मृजश्च राजश्च भ्राजश्च भ्रस्जश्च ब्रश्चश्च परिव्राजश्च यजसृजमृजराजभ्राजभ्रस्जव्रश्चपरिव्राज्, तस्य । [शः षः] शू षष्ठी डस् । ष प्रथमा सि । [देवेट्] 'यजीं देवपूजा-सङ्गतिकरण- दानेषु' (९९१) यज्, देवपूर्व० । देवेभ्यो यजतीति क्विप् देवेट् । 'यजादि-वचेः किति' (४।१।७९ ) वृत् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । [उपयट्] उपयजते इति उपयट् । 'मन्-वन्- क्वनिप्-विच् क्वचित्' (५।१।१४७) विच्प्र० । 'अप्रयोगीत् ' (१।१।३७) विज्लोपः । [ उपयड्भ्याम् ] उपयजतः इति उपयजौ, ताभ्याम् । [तीर्थसृट्] ‘सृजंत् विसर्गे' (१३४९) सृज्, तीर्थपूर्व० । तीर्थं सृजतीति क्विप् तीर्थसृट् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । [तीर्थसृड्भ्याम् ] तीर्थं सृजतः इति क्विप् तीर्थसृजौ, ताभ्याम् । [मा] 'मृजौक् शुद्धौ' (१०९७) मृज् । श्वस्तनी ता । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'मृजोऽस्य वृद्धिः ' (४।३।४२ ) वृ० आ० । अनेन ज० ष० । 'तवर्गस्य श्चवर्ग ० ' (१।३।६०) त० → ८० । [मार्टुम् ] मार्जनाय माटुम् । क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । मृजोऽस्य वृद्धिः' (४।३।४२) वृ० आ० । अनेन ज० ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० ८० । [कंसपरिमृट्] 'मृजौक् शुद्धौ' (१०९७) मृज्, कंसपूर्व० । कंस परिमाति क्विप् कंसपरिमृट् । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । [कंसपरिमृड्भ्याम् ] कंसं परिमृष्टः इति क्विप् कंसपरिमृजौ, ताभ्याम् । [विभ्राट् ] 'टुभ्राजि दीप्तौ' (८९४) भ्राज्, विपूर्व० । विशेषेण भ्राजते इति क्विप् विभ्राट् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । [विभ्राड्भ्याम् ] विशेषेण भ्राजेते इति क्विप् विभ्राजौ, ताभ्याम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy