SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [ज्ञानं तुभ्यं दीयमानं निध्या(प)यति, ज्ञानं महां दीयमानं निध्या(प)यति] [निध्या(प)यति] 'ध्य चिन्तायाम्' (३०) ध्यै । 'आत् सन्ध्यक्षरस्य' (४।२।१) ध्या, निपूर्व० । निध्यायन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग् । 'अर्त्ति-री-व्ली-ही-क्नूयि क्ष्माय्यातां पुः' (४।२।२१) पोऽन्तः । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३१) गु० → ए. । 'एदैतोऽयाय' (१।२।२३) अय् । गुरुस्तव कार्यमालोचयति, गुरुर्मम कार्यमालोचयति] [आलोचयति 'लोङ् दर्शने' (६४६) लोच, आङ्पूर्व० । आलोचमानं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग् । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३१४७१) शव । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० → ए० । 'एदैतो०' (१।२।२३) अय् । [जनो वो मन्यते, जनो नो मन्यते] [जनः] जन । प्रथमा सि । [वः] युष्मद् | द्वि० शस् । ‘पदाद् युग्विभक्त्यैकवाक्ये०' (२।१।२१) वस् । [मन्यते] बुधिं (१२६२) - ‘मनिंच ज्ञाने' (१२६३) मन् । वर्त्त० ते । 'दिवादेः श्यः' (३।४।७२) श्यप० → य० । [जनो वः पश्यति, जनो नः पश्यति] [वः] युष्मद् । द्वि शस् । ‘पदाद् युग्विभक्त्यैकवाक्ये०' (२।१।२१) वस् । [पश्यति] 'दृशुं प्रेक्षणे' (४९५) दृश् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'श्रौति-कृवु-धिवु०' (४।२।१०८) पश्य । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।। छ ।। नित्यमन्वादेशे ।।२।१।३१।। [नित्यम् नि मांडियइ, निश्चितं धुवं = नित्यम् । 'नेधुवे' (६।३।१७) त्यच्प० → त्य । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । [अन्वादेशे] अनु = पश्चादादेशोऽन्वादेशस्तस्मिन् । [यूयं विनीतास्तद् वो गुरवो मानयन्ति, वयं विनीतास्तन्नो गुरवो मानयन्ति] [यूयं] युष्मद् । प्रथमा जस् । ‘यूयं वयं जसा' (२।१।१३) यूयम् । [विनीताः] 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी, विपूर्व० । विनीयन्ते स्म । 'क्तक्तवतू' (५1१1१७४) क्तप्र० । प्रथमा जस् । [तद] तद् । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । [वः] युष्मद् । द्वि० शस् । अनेन् नित्यं वसादेशः । [गुरवः] गुरु । प्रथमा जस् । 'जस्येदोत्' (१।४।२२) उ० → ओ० । 'ओदौतोऽवाव्' (११२।२४) अव् । - [मानयन्ति] 'मानण् पूजायाम्' (१९६९) मान् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच् । वर्त० अन्ति । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० → ए० । 'लुगस्यादेत्यपदे' (२।१1११३) अलोपः । 'एदैतोऽयाय्' (१।२।२३) अय् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy